________________
सङ्घपतिचरितापरनामकं .
[षष्ठः लोहयन्त्रमयानेष्यज्जनताशातनाभयात् । रक्षकानार्षभिस्तत्राकार्षीत कीनाशदासवत् ॥ २४ ॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चक्री, रत्नपीठप्रतिष्ठितम् ॥२५॥ यथामानं यथावर्णं, यथालाञ्छनंमत्र च । बिम्बानि ऋषभादीनां, चतुर्विशतिमातनोत् ॥२६॥ कृत्वा रत्नमयीः सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां भूपः, स्वमूर्तिमपि निर्ममे ॥२७॥ बहिश्चैत्यं चितास्थाने, प्रभोः स्तूपमपि व्यधात् । भ्रातृणामपि च स्तूपान् , नवति स नवाधिकाम् ॥ २८ ॥ प्रतिष्ठाप्याथ बिम्बानि, तत्र चैत्ये यथाविधि । पयोभिः स्नपयामास, मांसलामोदमेदुरैः ॥२९॥ प्रमृज्य गन्धकाषाय्या, चन्दनेन विलिप्य च । अर्चयामास माणिक्य-सुवर्ण-कुसुमांशुकैः ॥ ३० ॥ तत्र चागुरु-कर्पूर-धूपंधूम्या घनावृते । कुर्वन् घण्टारवर्गजि, विद्युतं भूषणद्युता ॥३१ ।। तूर्य-चामर-सोत्कर्षपुष्पवर्षमनोहरम् । कर्पूरारात्रिकं चक्री, चक्रे शक्रेण सन्निभः ॥ ३२ ॥ युग्मम् ।। तदन्ते च विधायोचैर्विधिवचैत्यवन्दनाम् । महीमहेन्द्रस्तुष्टाव, भावपावनमानसः ॥ ३३ ॥
'अहो! सहोत्थितज्ञानत्रयो विश्वत्रयीपतिः। दुःखत्रयात् परित्राता, त्रिकालज्ञो जयत्ययम् ॥ ३४ ॥ जयत्येष स्व-परयोर्निर्विशेषमना मुनिः । समीपदीपस्त्रैलोक्येऽप्युच्चैस्तमतमश्छिदे - ॥ ३५ ॥ अयं जयति कन्दर्पसर्पदर्पपतत्पतिः । सुरा-ऽसुरशिरोरत्नराजिनीरांजितक्रमः ॥ ३६ जयत्यसांवसामान्यधामधामजिनाग्रणीः । समग्रजगदम्भोजविकाशनविभौविभुः असौ दिशतु विश्वेऽपि, हर्षमुत्कर्षयन् गुणान् । स्पष्टमष्टमहांकर्ममर्मनिर्मन्थंकर्मठः ॥३८॥ सर्पिष्टविष्टपानिष्टंदुरितोऽङ्कुरितोत्सवः । जयत्ययं महामायात्रियामाया दिवाकरः असावपारसंसारसमुत्तारतरण्डकः । जयतादुज्वलज्ञानमुक्ताधानकरण्डकः
॥ ४०॥ सिद्धिसौधोन्मुखप्राणिश्रेणिनिःश्रेणिसन्निमः । रोहन्मोहनुमद्रोहलोहपशुर्जयत्ययम् ॥४१॥
आदिनाथमिति स्तुत्वा, परानपि जिनेश्वरीन् । पुनः पुनर्नमंश्चैत्यान् , कथञ्चिन्निययौ नृपः । ४२ ।। गिरिं विलोकयन् वारंवारं वलितकन्धरः । भोक्तुं मोक्तुं चासमर्थो, निधानमिव तद्धनः ॥४३ ॥ वस्त्रान्तमार्जितोन्मज्जद्वाष्पप्लुतविलोचनः । निभृतैौनिभिर्भूपैर्वृतोऽप्येक इव वजन् ॥४४॥ मन्दमन्दाशिसञ्चारमुत्ततार गिरेस्ततः । नृपः शोकतमःपूरैरपश्यन्निव वर्तनीम् ॥ ४५ ॥
॥ विशेषकम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणालसैः । शोकप्रच्छादितोत्साहमयोध्यामविशत् पुरीम् ॥ ६ ॥ नाभेयप्रभुपादानां, दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापतिस्तत्र, तस्थावस्वस्थानसः ॥४७॥ तममात्यजनो वीक्ष्य, सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास, पितृ-प्रातृशुचाकुलम् ॥ ४८ ॥ जगतोऽपि कृतालोकं, लोकोत्तरपदास्पदम् । तात हृतविपत्तापं, शोचितुं तव नोचितम् ॥ ४९ ॥ तद्वचःकुसुमासारसारंसौरभसम्भृतः । शोच्यस्त्वया न चात्माऽपि, पुण्यलक्ष्मीस्वयंवरः ॥ ५० ॥ मूखों दुःखार्दितोऽभ्येति, लोकः शोकस्य वश्यताम् । सेवते न पुनर्धर्म, तत्प्रतीकारकारणम् ॥ ५१ ॥ त्वमप्याक्रान्तलोकेन, शोकेन यदि जीयसे । शौडीर्यगर्जितं तत्ते, न धत्ते ध्रुवमूर्जितम् .. ॥ ५२ ॥ शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरातसम्मदम् ॥५३ ॥
१ नमेव च खंता०॥ २ दुष्टावनिपतिस्तुतः वता० खेता० ॥ ३ भावसुः पाता० ॥ ४ लोकान्तर' वता० खंता० ॥ ५ पत्पातं, शो खता० पाता० ॥