________________
षष्ठः सर्गः।
ऋषभजिननिर्वाणमहोत्सवः प्रभोर्मोक्षक्षणे तत्र, नारकेष्वपि सौख्यदे । अज्ञातरुदितश्चक्री, मूच्छितः क्ष्मातलेऽपतत् ॥ १ ॥ शोकग्रन्थिविभेदाय, रुदितं शिक्षयन् हरिः । तस्य कण्ठमथाऽऽलम्ब्य, पूत्कारं तारमातनोत् ॥ २ ॥ लब्धसंज्ञोऽथ राजाऽपि, रुदन्नुचैःस्वरं पुरः । विह्वलः शोकपूरेण, विललापेति वालवत् ॥ ३ ॥
नाथ ! त्यक्तः कुतो दोषादनाथोऽयं त्वया जनः । । युष्मद् विना कथं भावी, भवारण्येऽशरण्यकः ?
॥ ४ ॥ वियोगः सह्यते भानोः, पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य, भवतस्तु सुदुःसहः ॥५॥ मूलतोऽसि न यदृष्टस्तेऽप्यस्मत्तः प्रभो! वरम् । अदृष्टेऽर्थे न तद् दुःखं, दृष्टनष्टे तु यद् भवेत् ॥ ६ ॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्रास्मि, त्वया पशिबहिष्कृतः ॥ ७ ॥ भूत्वा तस्य सुतः श्रीमन्निति शोकवशंवदः । अपि मुक्तिपदप्राप्तं, कि बीडयसि तं प्रभुम् ? ॥ ८ ॥ नृपः प्रलापान् कुर्वाणो, गीर्वाणपतिना स्वयम् । इत्थं प्रबोधितः शोकशङ्कु किञ्चिन्मुमोच सः ॥ ९ ॥
॥ युग्मम् ।। अथाऽऽदिष्टाः सुरेन्द्रेण, चन्दनैनन्दनोद्गतैः । पूर्वस्यां दिशि याम्यायां, प्रतीच्यामपि च क्रमात् ॥ १० ॥ वृत्तां प्रभोः कृते व्यसामिक्ष्वाकुकुलंजन्मनाम् । चतुरस्रां परेषां तु, चितां चक्रुर्दिवौकसः ॥ ११ ॥
॥ युग्मम् ॥ ततो मुक्तशरीराणि, निवेश्य शिविकान्तरा । चितासमीपमानिन्युस्ते महेन महीयसा ॥ १२ ॥ अथो यथोचितं तेषु, निहितेषु चितान्तरे । वहिं विचक्रुर्वायुं च, वह्नि-वायुकुमारकाः ॥ १३ ॥ तं च व्यध्यापयन् वहिमहायाऽब्दकुमारकाः । सुगन्धिमिरुपानीतैः, क्षीरवारिधिवारिभिः ॥ १४ ॥ ततः सर्वेऽपि देवेन्द्राः, देवाश्च जगृहुर्मुदा । दंष्ट्रा-दन्तादिकान्यस्थिशकलानि यथोचितम् ॥ १५ ॥ याचमानाश्च देवेभ्यो, लब्धकुण्डत्रयामयः । श्रावकास्तत्प्रभृत्येवमभूवन्नमिहोत्रिणः ॥ १६ ॥ भस्मभूषणतां प्रापुः, परे तद्भस्मवन्दकाः । ततश्चितात्रयस्थाने, रत्नस्तूपान् व्यधुः सुराः ॥ १७ ॥ इन्द्राश्चाष्टाह्निकां नन्दीश्वरे कृत्वाऽञ्जनादिषु । न्यस्य माणवकस्तम्भे, दंष्ट्रा भर्तुरपूपुजन् ॥ १८ ॥ भरतोऽपि प्रभोरङ्गसंस्कारासन्नभूतले । त्रिगन्यूतोच्छ्रयं चैत्यं, चक्रे योजनविस्तृतम् ॥१९ ।। रत्नाश्मनिर्मितेनाथ, तेन चैत्येन भासुरः । आविर्भूतो बभौ रत्नगर्भागर्भ इवाचलः ॥२०॥ तत्र चैत्ये चतुरे, प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास, प्रभापल्लविताम्बरान् ॥२१॥ प्रत्येक तत्पुरः प्रेक्षामण्डपानां चतुष्टयम् । अक्षपाटक-चैत्यगु-पीठ-पुष्करिणीयुतम् ॥२२ ॥ त गिरि दण्डरत्नेन, समीकृत्य नृपो व्यधात् । अष्टापदं स सोपानरष्टभिर्मेखलानिभैः ॥२३॥
१ तलेऽलुठत् खंता. पाता० ॥ २ जन्मिनाम् पातासं० ॥
घ०८