________________
सर्गः]'
।
धर्माभ्युदयमहाकाव्यम् । विवस्वदश्ववित्रासी, शशिसारङ्गभङ्गकृत् । चक्रिणा सिंहनादोऽथ, लोडितः क्रोडिताम्बरः ॥ ३५३ ॥ चमत्कारिणि विश्वानां, विरते भरतध्वनौ । सिंहनादो महान् बाहुबलिनो व्यानशे दिशः ॥ ३५४ ॥ क्षयाब्दगर्जिसँवांदे, नादे तस्मिन् विसर्पति । अभूदकालकल्पान्तशङ्कातङ्कातुरं जगत् ॥ ३५५ ।। त्रुट्यत्पर्वतखण्डेन, क्षुभ्यदम्भोधिनाऽधिकम् । विजिग्ये तेन शब्देन, भूयो भरतभूपतिः ॥ ३५६ ॥ अथ हस्तप्रहारेण, रणं निश्चित्य दुर्मदौ । तावपासरतां शक्तिधन्यौ वन्यौ गजाविव ॥ ३५७ ।। भरतेनाऽऽहतः प्राणपुष्ट्या मुष्ट्याऽथ मूर्धनि । 'क्षणं बाहुबलिन्तैिर्वत्रे रविरिवाम्बुदैः ॥ ३५८.॥ सद्वृत्तस्येव कोलीनं, मुनेमन्युरिव क्षणात् । ययौ शशधरस्येव, राहुर्बाहुबलेस्तमः ॥ ३५९ ॥ ततो बाहुबलेर्मुष्टिवज्रपातेन ताडितः । पपात शैलवच्चक्री, समं सैन्यमनोरथैः । ॥३६०॥ बन्धुना चन्दनस्यन्दैः, सिक्तश्चन्द्रकरैरिव । कैरवाकरवन्मूर्छामथामुञ्चत चक्रभृत् ॥३६१ ॥ निश्चित्याथ प्रचण्डेन, दण्डेन समरोत्सवम् । अधावतामुभौ भीष्मी, धृतदण्डौ यमाविव ॥३६२ ॥ ततः शिरसि दण्डेन, हतो भरतभूभुजा । सुनन्दासनुराजानु, ममज्ज भुवि कीलवत् ॥ ३६३ ।। अथ ममौ क्रमौ तस्माद्, भूतलात् पकिलादिव । लीलयैव क्रमेणायमुद्दधार धराधवः ॥३६४ ॥ तद् बाहुबलिना मौलौ, दण्डेन भरतो हतः । ममज्ज लज्जयेवोचैराकण्ठमवनीतले ॥ ३६५ ॥ वभूव क्षितिमनस्य, चक्रिणः स्फुटमाननम् । शोकश्यामं निजयशःशशिग्रासेन राहुवत् ॥३६६ ॥ मग्नो गर्तादथाकर्षि, चक्री कोहालिमिटेः । उत्तमणैरिव प्रत्तदेयवित्तोऽधमर्णकः ॥ ३६७ ।। आससाद विषादस्तद्, भरतं परितो जितं । चक्री नाहमसौ चक्री, ध्यायन्तमिति चेतसि ॥ ३६८ ॥ अथाकस्मात् करेऽमुष्य, चक्रित्वभ्रान्तिभित्तये । आरुरोह ज्वलच्चक्र, रविबिम्बमिवाम्बरे ॥ ३६९ ॥ तेन पार्श्वगतेनोच्चैश्चक्री चक्रेण सोऽज्वलत् । मार्तण्डमण्डलेनेव, मार्तण्डोपलपर्वतः ॥३७० ॥ अथ ज्योतिःपथे सुस्थाँस्त्रासयस्त्रिदिवौकसः । वधाय बन्धोनिःशङ्कश्चक्री चक्रं मुमोच तत् ॥ ३७१ ॥ कल्याणशालिनो बाहुबलेरोरिव व्यधात् । चक्रं प्रदक्षिणाचक्र, चक्रबान्धवबिम्बवत् ॥ ३७२ ॥ गोत्रे न 'प्रभवत्येव, चक्रमित्यवलिष्ट तत् । अमोघमप्यनिष्पन्नचक्रवर्तिमनोरथम् ॥ ३७३ ॥ सस्मयं भस्मयिष्यामि, सचक्र चक्रवर्तिनम् । इत्युत्पाट्य क्रुधा मुष्टिं, सुनन्दाभूरधावत ॥ ३७४ ॥ गतो वक्त्रं हहा ! चक्रवर्त्यसौ समवर्तिनः । ईहा कलकलारावो, बभाराम्बरगह्वरम् ॥ ३७५ ॥ अत्रान्तरे विवेकार्कतेजःशाम्यन्मनस्तमाः । दध्यौ प्रवीरतामानी, मानी नाभेयसम्भव: ॥ ३७६ ॥ जगतीं जिष्णुरप्येष, योधैः क्रोधादिभिर्जितः। तदन्यविजितं जेतुमेतं घिग्! धिग् ! ममोद्यमम् ॥ ३७७ ॥ तज्जयामि यदि प्रेतानेतान् जितजगत्रयान् । सत्यं तत्तनुजन्माऽस्मि, तस्य विश्वप्रभोरहम् ॥ ३७८ ॥ स ध्यात्वेति नवद्वारे, पुरे तेषां सदास्पदे । शिरःपरिसरांदुच्चखान तत् केशकाननम् ॥ ३७९ ॥ निवार्य सर्वव्यापारानसौ निश्चलनिश्चयः । स्वतन्त्रस्तत्र पाना-ऽन्नप्रवेशमरुधत् ततः ॥ ३८० ॥ बन्धवो लघवः सर्वे, केवलज्ञानशालिनः। कथं वन्द्या मया साक्षाद, गत्वा तातस्य सन्निधौ ? ॥ ३८१ ॥ तत् प्राप्य केवलज्ञानमिहैवानन्दमन्दिरम् । भूत्वा समः स्वबन्धूनां, गन्ताऽहं तातसंसदि ॥ ३८२ ॥ निश्चित्येति चिरं चित्ते, तत्रैव कृतवान् कृती । कायोत्सर्गविधि मोहमहीपतिजयोर्जितः ॥ ३८३ ॥
१ भ्यत्पाथोधिना खता० ॥ २ रानुच्च पाता० ॥
घ०७