________________
सङ्घपतिचरितापरनामकं 'विनष्टं न तदद्यापि, किमप्यस्ति महौजसः । 'दूरादपसरत्वेष, वलितोऽस्मिं रणादहम् ॥ ३२२ ॥ अपरमापसामान्यामाज्ञां कर्तुमयं पुनः । मयि क्रोधोद्धतं धावन् , दन्तीवाद्रौ भविष्यति ॥ ३२३ ॥ तदनिष्टफलो भाति, मन्त्रहीनस्य निश्चितम् । वहिमुष्टिन्धयस्येवं, नरेन्द्रस्यायमुद्यमः ॥ ३२ ॥ ऋते न तातपादाँस्तु, स्वामी मम भवेत् परः । विना दिनाधिपं किं स्यात् , कोकस्यान्यः प्रियाकरः ॥३२५॥ अथाऽऽहुरमराः श्रीमन् !, निस्सीमगुणगौरव ! | कार्येऽत्र विशदाऽप्येषा, नास्माकंक्रमते मतिः॥३२६॥ एकतश्चक्रिणश्चक्रं, त्वत्प्रणामसमीहया । न विशत्यायुधागारं, विभ्राणमकृतार्थताम् ॥ ३२७ ॥ अन्यतस्तव पश्यामः, सर्वथा विनयं वयम् । तत् किं युक्तं भवेद् वक्तुमस्माकं जगतीपते ! ॥ ३२८ ॥ अभ्यर्थयामहे किन्तु, भवन्तं भुवनप्रभो! । युद्धेन नहि योद्धव्यं, प्राणिप्राणापहारिणा ॥३२९॥ दृग्-वाग-दण्डादियुद्धेन, बलावलपरीक्षणम् । कृत्वा जयो व्यवस्थाप्यः, साक्षिणोऽमी भवामहे ॥ ३३०॥ तथेति प्रतिपेदाने, प्रार्थनां नाभिनन्दने । नातिदूरस्थितास्तस्थुमध्यस्थास्ते दिवौकसः ॥३३१ ॥ . अथ स्वामिसमादेशादारुह्य करिणो रणात् । जवान्निवारयामासुर्नुपयोः पुरुषा भटान् ॥ ३३२ ।। राजाज्ञामथ राजन्याः, सेनयोरुभयोरपि । श्रुत्वा ववलिरे कष्टं, रुष्टा मुष्टा इवाहवात् ॥ ३३३ ।। श्रुत्वा सङ्गरमङ्गाङ्गि, सैनिकास्तेऽथ चक्रिणः । परस्परमिति प्रोचुः, शोचन्तो देवमन्त्रितम् ॥ ३३४ ॥ अहो ! धिगिदमायातं, सङ्कटं स्वामिनोऽधुना । समं श्रीबाहुबलिना, बलिना सह यो रणः ॥ ३३५ ॥
नियुद्धबुद्धिदानेऽस्मिन् , दोषः को वा दिवौकसाम् । ' ईदृशानां मुधा नाम, कौतुकं को न पश्यति ?
॥ ३३६ ।। जानता भुजयोर्वीर्यमनुजस्य महीभुजा । एतन्मेने न जानीमस्तत् काऽपि भवितव्यता ? ॥ ३३७ ॥ स्वसैनिकानां श्रुत्वेति, गिरो भरतभूपतिः । बलं दर्शयितुं स्वस्य, तानाहूयेदमब्रवीत् ॥ ३३८ ।। मया दृष्टोऽद्य दुःस्वप्नः, किल शृङ्खलमण्डलैः। बद्धाऽऽकृष्य तटाद् भूपाः, कूपान्तमिपातयन् ॥ ३३९ ।। अशिवस्य विभेदाय, स्वप्मार्थोऽयं ततोऽधुना । अवश्यं सत्यतां नेयो, भवद्भिर्बलशालिभिः ॥ ३४० ॥ अनिच्छतामिदं राज्ञां, प्रभोर्व्यसनसाहसम् । आज्ञां दत्त्वा स राजेन्दुः, कूपमेकमकारयत् ॥ ३४१॥ अवटस्य तटे तस्य, निविष्टो भरतेश्वरः । शृङ्खलानां सहस्रण, वामहस्तावलम्बिना ॥३४२ ॥ सर्वसैन्याभिसारेण, सर्वैरु-मुजां गणैः । सर्वस्थाना समालम्ब्य, समाकृष्यत भूपतिः ॥३४३ ॥ युग्मम् ॥ ससैन्यानपि राजन्यान् , शृङ्खलासु विलम्बिनः। रोमभ्यो नाधिकान् मेने, बलवान् भरतेश्वरः ॥.३४४ ॥ हृद्यं हृद्यङ्गरागं स, तेने तेनैव पाणिना । पेतुस्ते तु समं दत्तसङ्केता इव भूभुजः ॥३४५॥ । दृष्टेन च बलेनास्य, सम्भावितपराक्रमाः । भूभुजो भेजिरेऽम्भोजस्मेरवक्त्रास्तदा मुदम् ॥ ३४६ ॥
अथ श्रीबाहुबलिना, समं समरसीमनि । प्रथमं दृष्टियुद्धाय, प्रतिज्ञा कृतवान् नृपः ॥ ३४७ ॥ उभावभिमुखौ तत्र, निमेषविमुखेक्षणौ । प्रत्यूषपूष-पूर्णेन्दुविभ्रमं बिभ्रतुश्विरम् ॥३४८ ॥ निरीक्ष्य निर्निमेषत्वं, समरं यातयोस्तयोः । तदाद्यनिमिषीभावं, मन्ये मन्युभुजोऽभवन् ॥ ३४९ ॥ सन्तप्ते सोष्मणो बाहुबलेरालोकनाच्चिरम् । सपयित्वाऽश्रुमिश्चक्री, प्रावृणोत् पक्ष्मणा दृशौ ॥ ३५० ॥ अहो! जितं जितं वाहुबलिना बलिनाऽमुना । इत्थं कलकलं चक्रुस्तदा विजयसाक्षिणः ॥ ३५१ ॥ हक्सङ्ग्रामजितेनाथ, समं भरतभूभुजा । प्रारेमे शब्दसमरं, दक्षस्तक्षशिलाविभुः ॥ ३५२ ॥
१नां पृथिवीपतौ । नाति खता० ॥ २ तानहाये खंता० ॥