________________
४७
सर्गः] . धर्माभ्युदयमहाकाव्यम् । सुभटः सुमटं हस्ती, हस्तिनं रथिनं रथी । आसदत् सादिनं सादी, बलयोरुभयोरपि ॥२९१ ॥ छिन्नाः प्रोड्डीनकाण्डालीमण्डपेन रवेः कराः । पतिता इव भान्ति स्म, क्षितौ क्षतजकैतवात् ॥ २९२ ।। उद्धृतधूलिजे ध्वान्ते, द्रष्टुं द्विष्टानिव क्रुधा । धावन्ति स्म भटाः प्रेसत्कुन्तदीपकपाणयः ॥ २९३ ॥ भुजाभृतां भुजादण्डैः, शिरोभिश्च क्षितिच्युतैः । कृतान्तकिङ्कराश्चक्रुर्दण्ड-कन्दुककौतुकम् ।। २९४ ॥ ये तरस्वितया तेरुर्भटाः सङ्गरसागरम् । आसन् रुधिरवाहिन्यस्तेषामप्यतिदुस्तराः ॥२९५ ॥ अश्वानामश्ववाराणामप्यङ्गमिलितैर्मिथः । शिरोभिः पतितैर्युद्धं, किन्नराणामिवैश्यत ॥२९६ ॥ दन्तिदन्ताग्रसट्टजन्मा वह्निकणोत्करः । रेजे रजोधनध्वान्तखेलखद्योतपोतवत् ॥२९७ ।। प्रस्थानानि सुवाहूनामिव प्रीताः सुरस्त्रियः । भटानां भाविभर्तृणां, सजः कण्ठेषु चिक्षिपुः ॥ २९८ ॥ विद्भिः शुशुभे खड्गलेखां धूमशिखासखीम् । रुषाऽरुणैर्भटैर्भर्तुर्मुस्तेजोऽनलैरिव ॥ २९९ ।। अथ बाहुबले सैन्यैर्भरतेशस्य वाहिनी । कल्लोलिनीशकल्लोलैरिव पश्चाद् व्यधीयत ॥ ३०० ॥ पुरस्कृतसुषेणोऽथ, रणाय भरतेश्वरः । स्वयं रविरिवोत्तस्थेऽग्रेसरारुणसारथिः ॥३०१॥ युद्धश्रद्धालमालोक्य, ज्यायांसं भ्रातरं पुरः । तुल्यं वाहुबलिभूपोऽभूदोकः शोक-हर्षयोः ॥ ३०२ ॥ गृहीतरणदीक्षोऽथ, प्रज्वलन्निव तेजसा । रवेः समः समारोहत् , कुञ्जरं राजकुञ्जरः ॥ ३०३ ॥ तौ स्वयं जगतीमल्लौ, वीक्ष्य युद्धोद्यतौ तदा । हन्त ! चेतांस्यकम्पन्त, त्रिविष्टपसदामपि ॥ ३०४ ॥
अथो भरतमभ्येत्य, दत्त्वाऽऽशीर्वादमादरात् । देवा एवमवोचन्त, प्रशान्तं स्वान्तशान्तये॥३०५॥ षट्खण्डभरतक्षेत्रविजये तव सर्पतः । सम्मुखीनोऽभवत् कश्चिन्न चेन्नामेयनन्दन! ॥ ३०६ ।। दोर्दण्डकण्डूमेदाय, तत् किं नाम महाभुज !। निजेन वन्धुना सार्घ, युद्धसज्ज ! न लजसे ? ॥ ३०७ ॥
॥ युग्मम् ॥ अथाऽऽह चक्री गीर्वाणाः!, युक्तमेतद्भवद्वचः । किन्तु सम्यग् न जानीथ, वन्धुना रणकारणम् ॥३०८॥ न दोःकण्डूभरच्छेदबुद्धियुद्धे निवन्धनम् । हेतुः किन्तु रथाङ्गस्याप्रवेशः शस्त्रमन्दिरे ॥३०९ ॥ अनुप्रविश्य मां शस्त्रगृहे चक्र प्रवेश्य च । षट्खण्डभरतक्षेत्रपतिर्भूयान्ममानुजः ॥ ३१० ॥ अनेन वचसा बाहुबलिं बोधयताधुना । यदि युद्धनिषेधाय, युष्माकमयमुद्यमः ॥ ३११ ॥ अथोचुस्ते पुनर्देवा, यद्यसौ नहि वुध्यते । तथापि नास्त्रोद्धव्यमाज्ञाऽत्र ऋषभप्रभोः ॥ ३१२ ॥ दृष्टि-वाग्-दण्ड-दोर्दण्डयुद्धैरेव बलाबलम् । युवयोञ्जस्यते किं तदायुधैर्दारुणै रणे ? ॥ ३१३ ॥
ओमित्युक्तवति क्षमापे, ततो जग्मुर्दिवौकसः । नृपं बाहुबलिं मूर्तमिव वीररसं प्रति ॥३१४ ॥ जयेत्याशिषमुद्दाग्नी, दत्त्वा प्रीतेन चेतसा । सुधामधुमुचा वाचा, प्राहुर्बाहुबलिं सुराः ॥३१५ ।। ज्यायानयं नयोत्तंस!, किं न सस्क्रियते त्वया । संरम्भः किमयं वीर!, भरतं प्रति सम्प्रति ?॥ ३१६ ॥ जेया रागादयस्तावद्, ये युगादिजिनेशितुः। तदङ्गजस्य ते तात!, पोषस्तेषां किमु क्षमः ।। ३१७ ॥ नतिमात्रेण यत् तोष, भजत्येष तवाग्रजः । कथङ्कारं तमाराध्य, नात्मसात् कुरुषे क्षमाम् ? ।। ३१८ ॥ अथ बाहुबलिः प्राह, सुरान् गम्भीरया गिरा । इत्थं कथमविज्ञातवस्तुतत्त्वैरिवोच्यते ? ॥ ३१९ ॥ यसो मातृभावेन, मत्तः सत्कारमिच्छति । युक्तं तदेष यत् तातसम एव ममाग्रजः ॥ ३२० ॥ पर प्रौढप्रतापत्वाज्जितकाशितया तया । आक्रम्य नमयेद् यन्मां, न तदेतदहं सहे ॥३२१ ॥
१ स्ववा खंता० ॥