________________
४६
सङ्घपतिचरितापरनामकं
चितः । प्रतिक्षेत्रं प्रतिग्राम, चक्रिदेशनिवासिनाम् । व्याकुलत्वं विलोक्येति, चिन्तयामासिवानसौ ॥ २६१ ॥
॥ कलापकम् ॥ अहो ! विग्रहवातेयमस्मत्तो वेगवत्तमा । अग्रे भूत्वा यतः कश्चिन्नागतः श्रूयते त्वसौ ॥२६२ ॥ अहो! प्रौढप्रतापत्वं, श्रीबाहुबलिभूभुजः । स्वस्थानस्थेऽपि यत् तस्मिन्नस्माकं भयमीदृशम् ॥ २६३ ।। चिन्तयन्निति सम्प्राप्तो, विनीतायां स नीतिमान् । विज्ञो विज्ञपयामास, यथावन्नृपतेः पुरः ॥ २६४ ॥ पटाञ्चलेन चेद् भानुश्छाद्यः स्यात् तरुणच्छविः। यदि ज्वालाकुलो वहिर्भवेद् ग्राह्यश्च मुष्टिना ॥ २६५॥ तवानुजस्तथाप्येष, स्वामिन् ! षट्खण्डभूपते ! । उत्कर्षिपौरुषो नान्यैर्जेतुं शक्यः सुरैरपि ॥ २६६ ।।
। युग्मम् ॥ . । श्रुत्वेति भरताधीशः, सोत्साहो मन्त्रिभाषितैः । प्रयाणं कारयामास, पुरीं तक्षशिलां प्रति ॥ २६७॥ . सम्पन्नपुलका कुन्तैः, स्विन्ना करिमदाम्बुमिः । स्वैरं भर्चा बलाक्रान्ता, चकम्पे काश्यपी तदा ॥ २६८॥ : मारुतस्य मुखे धूलि, क्षिपन्तश्चरणोद्धृताम् । वाजिनः परितोऽधावन् ; सत्वराः सत्त्वराजिनः ।। २६९ ।। द्विषद्यशोमहश्चन्द्र-भानुच्छादनहेतवे । वहन्तो मेघलेखावत्, खङ्गान् वीरास्तदाऽचलन् ॥ २७० ॥ वंशनासास्तुरङ्गाक्षाः, पताकातिलकास्तदा । प्रचेलुश्चक्रताडका, रथाः सेनाननश्रियः ॥२७१॥ स्थिरामस्थिरयद् वेगात् , तच्चचाल बलं तदा । उद्यद्भूलिभरैरब्धि, गम्भीरमगभीरयत् ॥ २७२ ॥ बहलीदेशसीमानमसमानपराक्रमः । आचक्राम क्रमाञ्चक्री, वियद्देशमिवांशुमान् ॥२७३ ।। ज्ञात्वा तत् परिघोत्तालबाहुर्बाहुबलिबलम् । प्रेरैयामास कल्पान्तोत्पातवात इवोदधिम् ॥२७४ ॥ . तद्भेरीनलिकायन्त्रप्रेरितैः समिरोमिभिः । भटाः प्रदीपितक्रोधवह्रयश्चेलुरुच्चकैः ॥२७५ ॥ नेदुस्तदा रिपुप्राणप्रयाणपटहोपमाः । निःस्वानप्रकराः शब्दैरुदरम्भरयो दिशाम् ॥ २७६ ॥ संसिच्य मदपाथोभिः, संवीज्य श्रुतिमारुतैः । करिणः कम्पयामासुः, शीतामिव मेदिनीम् ॥ २७७ ॥ खनन्ति स्म खुरैः क्षोणिं, जवना वाजिराजयः । आक्रष्टुमिव पानीयं, सेनायास्तृप्तिहेतवे ॥ २७८ ॥ तरङ्गैरिव सध्वानलैाहुबलिस्ततः । महीमाच्छादयामास, कल्पान्तम्रान्तवार्द्धिवत् ॥ २७९ ॥ उपान्ते चक्रिसेनायाः, सेनामयमवासयत् । प्रातस्तिमिरधोरण्याः, शूरोऽनूरुप्रभामिव ॥२८० ॥ गाम्भीर्य दर्शयन्तोऽपि, तदा सैन्यैः कदर्थिताः । तत्कालं कलयामासुः, कलुषत्वं जलाशयाः ॥ २८१ ॥ स्थूला स्थुलततिस्तेने, तदा गुरुगिरिश्रियम् । तटार्गलितमातङ्गगण्डशैलाऽतिदुर्गमा ॥२८२ ॥ गुरुडम्बरमौलिस्थरत्नकुम्भसमानताम् । रविर्लिप्सुरिव प्राप, तदाऽस्तगिरिमस्तकम् - ॥२८३ ॥ अस्ताचलपतद्भानुगोलकोच्छलितैरथ । पाथोभिरिव पाथोविस्तमोभिानशे नमः ॥२८४ ॥ तदाऽक मन्दरक्षोभान्निःसरन्त्या इव श्रियः । उन्ममज्ज मुखाम्भोजमम्भोधेरिन्दुकैतवात् ॥२८५॥ .. सेनामटेषु कुर्वत्सु, शस्त्रजागरणोत्सवम् । खड्गं जागरयामास, शशाङ्कोऽप्यङ्ककैतवात् ॥२८६ ॥ . स्तुतिव्रतानामन्योन्यं, वचनाहुतिभिभृशम् । दिदीपे नृपयोर्बद्धबोधः क्रोधधनञ्जयः ॥२८७ ॥ ततस्ततरणोत्साहैः, सैन्ययोरुभयोर्भटैः । रणदेव्याः पुरस्तेने, निद्रव प्रथमं वलिः ॥२८८ ॥ . . बलयोस्तूर्यनिघोषैर्मृगं त्रस्तमिवाङ्कतः । दिदृक्षुरथ शीतांशुरगादस्ताद्रिकाननम् ॥२८९ ॥ . ततः पूर्वाद्रिमारूढे, देवे दिवसभर्तरि । रागेणाभ्यागमस्ताभ्यां, चक्राभ्यामुपचक्रमे , ॥२९० ॥ .
१ प्रेषया वता० ॥ २ सूरों पाता० ॥