________________
सर्गः
,
धर्माभ्युदयमहाकाव्यम्। भ्रातृभावादनायाते, निर्भये या स्वभावतः । किन्तु मय्येव लोकोऽयमवद्धवदनोऽभवत् ? ॥ २३३॥ किं वा यदेष भ्रातृणां, राज्यानि नृपतिस्तव । जनसे श्वेव वान्तानि, तथा तत्राप्यभूदयम् ? ॥ २३४ ।। मम प्रमुरसावेव, सेव्यः श्रीनाभिनन्दनः । सुरा-ऽसुरनृपैः क्लुप्तप्रथः प्रथमतीर्थकृत् ॥२३५ ॥ पिता गुरुवा स्वामी वा, जन्मन्येकत्र जन्मिनाम् । एक एव भवेन्नान्यस्तत् किं तेन करोम्यहम् । ॥ २३६ ॥ स मम ज्येष्ठभावेन, प्रणामं यदि लप्स्यते । न प्रभुत्वाभिमानेन, पुनः स्वप्नेऽपि ते पतिः ॥ २३७ ॥ यच्च मतोऽपि तेजांसि, नाथस्ते नाथते ध्रुवम् । कक्षस्य वह्नितस्तेजोवाञ्छामनुकरोति तत् ॥ २३८ ॥ ज्ञातेयं कोपयुज्येत, राज्ञां ? मिथ्येति ते वचः। मयि सत्यप्ययं राज्यश्रियं भुते कुतोऽन्यथा ? ॥ २३९ ॥ ते चान्ये ये दधुस्वित्यस्मिन् खद्योतपोतताम् । अहं तु हन्त ! तस्य स्यामस्तभूधरबन्धुरः ।। २४० ॥ त्रैलोक्यपूजितो यस्य, पिता श्रीवृषभप्रभुः । किञ्चायमनुजः शौर्यतृणीकृतजगत्रयः ॥२४१॥
__सुरा-ऽसुर-नरैः सोऽयं, सेन्यो यत् तदिदं कियत् ।।
इदं वद यदेतस्य, पुरः कोऽयं सुरेश्वरः ? ॥२४२ ।। युग्मम् ।। तन्न त्रपाऽस्य सेवायां, करुणा तु ममाद्भुता । लजिण्यतेऽसौ मां वीक्ष्य, यत् पुरा खुरलीजितः ॥ २४३ ॥ पुरा कारासुखं प्राप, यत्रास्मद्भुजपञ्जरे । तत् कि विस्मृतमेतस्य, चाटुकृच्चाटुगर्विणः ? ॥२४४ ॥ तद् गच्छ त्वं समायातु, स स्वयं भवतः प्रभुः । यथाऽस्य गर्वदुष्कर्मप्रायश्चित्तं करोम्यहम् ॥ २४५ ॥ . दूतोऽथ धैर्यमालम्ब्य, सभयः स सभागृहात् । निस्ससार सभासद्भिः, कूणिताक्षं विलोकितः॥ २४६ ॥ सज्जीकृतायुधान् वीरान् , मृत्युभृत्यानिवोद्यतान् । पश्यन् सुवेगो वेगेन, निरगान्नुपमन्दिरात् ।। २४७ ।। नवः क इव दूतोऽयं, भरतस्य महीभुजः । किमन्योऽपि नृपोज्येष्ठः,स्वामिनोऽस्यैव वान्धवः ॥ २४८॥ केयत्कालं गतः सोऽभूज्जयाय भरतक्षितेः । अत्रामुं स कुतः प्रैषीदनुजाकारणेच्छया ? ॥ २४९ ॥
अस्य बन्धौ किमुत्कण्ठा ?, न किन्तु प्राभवस्पृहा ।
मन्त्रे किं नाखुरप्यस्य, शतशः सन्ति मन्त्रिणः ? ॥२५०॥ तैः स किं बलिनं सिहं, खलीकुर्वन्न वारितः ? । प्रत्युत प्रेरितोऽमीभिर्बुद्धिः कर्मानुसारिणी ॥ २५१ ॥ जितं किं हारयत्येष, षट्खण्डं मण्डलं भुवः । जितकाशितया वेत्ति, न मूढः प्रौढिमात्मनः ।। २५२ ॥ इत्थं पथि कथाः शृण्वन् , मिथः पौरमुखोद्गताः । दूरादुल्लङ्घयामास, सुवेगो नगरीमिमाम् ।। २५३ ।।
॥षद्धिः कुलकम् ॥ क्रमेणाथ प्रयातोऽयमटवीं भिल्लसङ्कलाम् । श्रीवाहुबलिभूपालबलैराटविकैर्वृताम् ॥२५४ ॥
तत्र शार्ङ्गधरान् कॉश्चित् , पशुस्पर्शपरान् परान् । एकानश्मायुधानन्यान् , कुन्तदन्तुरिताम्बरान्
॥ २५५ ॥ अयं मूर्त्तानिवोत्साहान् , श्रीवाहवलिभूभुजः । मिल्लानालोकयामास, सुवेगः कम्पिताकृतिः ।। २५६ ॥ अटवीं तामथोल्लङ्य, कथञ्चिदतिभीषणाम् । चक्रिणो देशमासाद्य, स्वं मेने स पुनर्नवम् ॥ २५७ ॥ अपकान्यपि धान्यानि, लनीत ननु रंहसा । अपूतान्यपि गुप्तासु, क्षिपत क्षोणिखानिपु ॥ २५८ ॥ अतिभारसहानुचैः, शकटान् कुरुतोत्कटान् । लभ्य-देयानि सङ्कोच्योचलितुं भवतोद्यताः ॥२५९ ॥ यस्माद् भरतभूपालमभिषेणयितुं बली । श्रूयतेऽभ्युद्यतो वाहुवलिर्वाहुवलोन्मदः ॥२६०॥
१ क्षं निरीक्षितः खंता० पाता० ।। २ सहिप्योच्च खता० पाता० ।।