________________
सर्गः]
धर्माभ्युदयमहाकाव्यम्। स्वामिन् ! को नाम दिग्यात्राकर्तरि त्वयि भर्तरि । तिष्ठेताद्यापि ? चण्डांशी, तमस्काण्डंकियञ्चिरम् ॥१७३॥ आः ! ज्ञातमथवा स्वामिन्नवश्यं न वशंवदः । स बाहुबलिभूपालस्तवैवावरजो बली ॥१७४ ॥ अपि विश्वं स सामर्षः, सवायुरिव पावकः । विश्वं दग्धुमलं खड्गधूमान्धीकृतशात्रवः ॥ १७५ ॥ षट्खण्डं भरतक्षेत्र, जित्वाऽपि जगतीपते ! । अजित्वा तं जगद्वीरं, वास्तवस्तव कः स्तवः ।। १७६ ॥ एतस्याविजये देव!, दिग्जयव्याजतस्त्वया। अस्मिन् पटखण्डभूखण्डे, कृतं देशान्तरेक्षणम् ॥ १७७ ॥ तदेष देव ! भवतो, युज्यते प्राज्यतेजसः । नोपेक्षितुं क्षितिस्वामिन् !, नमितामितशात्रवः ॥ १७८ ॥ अथ प्रथमतो न त्वं, बान्धवं बन्धुवत्सल ! । योद्धमुत्सहसे दूतं, तत् कञ्चित् प्रेषयाधुना ॥ १७९ ॥ वीरंमन्यो न मन्येत, तवाज्ञां यदि चानुजः । तदा यदायुधीयानां, बुध्यते तद् विधीयताम् ॥ १८० ॥ इत्यमात्योदिते दूतं, दक्षस्तक्षशिलां प्रति । स वेगेन सुवेगाख्यं, निसृष्टार्थ विसृष्टवान् ॥ १८१ ।।
___ अथास्खलनतिर्वायुरिवायं वेगतोऽगमत् । निवारितोऽपि शकुनैः, सुवेगो दूत्यदक्षिणः ।। १८२ ॥ निम्नगा-नगर-ग्राम-कान्तार-गिरि-गह्वरान् । सुवेगः स लघूल्लवय, वहलीदेशमासदत् ॥ १८३ ॥ श्रीमद्धाहुबलिस्वामियशःसुरमिताननैः । कान्तं वनान्तविश्रान्तैः, क्रीडद्गोपाङ्गनागणैः ॥ १८४ ॥ गायन्तीमिश्चरित्राणि, श्रीयुगादिजिनेशितुः । नन्दनादेत्य दैत्यारिस्त्रीभिः सान्द्रीकृतद्रुमम् ॥ १८५ ॥ अलङ्कारप्रभामिन्नतमिश्रासु दिनेप्विव । तमिश्रास्वपि पान्थस्त्रीपाणिन्धमभवत्पथम् ॥१८६ ॥ उपेत्य स्वर्गिणां स्वर्गादद्भुतश्रीदिदृक्षया । हृष्टानामद्भुतै गर्दुस्त्यजीभूतभूतलम् ॥ १८७ ॥
॥ पञ्चभिः कुलकम् ॥ असावासाद्य तं देशमपूर्वाद्भुतवैभवम् । जन्मान्तरमिव प्राप्तः, कृत्यं विस्मृतवानिव ॥१८८ ॥ अथ तक्षशिलां बाहुबलिबाहुबलोर्जिताम् । नगरी स गरीयस्याः, सम्पदः पदमासदत् ॥ १८९ ॥ पश्यन्नस्यामसौ पुर्या, वैभवं भुवनाद्भुतम् । उन्मुखो ददृशे लोकैर्विक्रीतेभ्य इवोद्धृतः ॥ १९० ॥ क्षणं प्राप्य नृसिंहस्य, सिंहद्वारं महीभुजः । तस्थौ रथादथोत्तीर्य, स्मरन्निव स वाचिकम् ॥ १९१ ॥ गच्छन्नथागतश्चक्रिप्रताप इव मूर्तिमान् । तस्थौ राजकुलद्वारि, वारितो वेत्रिभिः क्षणम् ॥ १९२ ॥ अथ बाहुबलेराज्ञां, द्वाःस्थेनासाद्य सादरम् । प्रावेश्यत सुवेगोऽयं, सहर्षः पर्षदन्तरे ॥ १९३ ।। स सभान्तः सभासद्धिः, कचिन्नीलाश्मकुट्टिमे । जलभीत्योद्धरन् वासः, सहासमवलोकितः ॥ १९४ ।। आकाशस्फटिकस्तम्भस्खलिताङ्गतया कचित् । अन्यत्रापि चचारासौ, हस्तैयस्तैः पुरः पुरः ॥ १९५ ।। रलस्तम्भसमालम्बिप्रतिबिम्बमवेक्ष्य सः । कृच्छ्रेण जज्ञे विज्ञोऽपि, तत्त्वतः पृथिवीपतिम् ॥ १९६ ॥ नमस्कृत्य नृपं पुजीभूतहारः स भूतले । विशिष्टो विष्टरे वेत्रिनिर्दिष्टे स निविष्टवान् ॥ १९७ ।। ___ मुखाजविलसद्वाणी, रणन्नूपुरहारिणीम् । उज्जगार गिरं कर्णसुधां स वसुधाधवः ॥ १९८ ।। कश्चित् कुशलमार्यस्य ?, कच्चित् कुशलिनी प्रजा । कुशली कच्चिदार्यस्य, सेनान्यादिपरिच्छदः? ॥१९९|| स पखण्डं क्षमाखण्डमाखण्डलपराक्रमः । साधयन्न कचित् कच्चिदार्यः प्राप पराभवम् ? ॥ २०० ॥
आवर्जिता जिताः कच्चिदार्येण जगतीभुजः । यथाऽन्वहं वहन्तस्तामाज्ञां न स्युर्विपादिनः । ॥ २०१ ॥ । , समं जनानुरागेण, स्पर्धया वृद्धिगामिनः । आर्यस्य धर्म-कामा-ऽर्था, न बाधन्ते परस्परम् ? ॥ २०२ ।।
१ सलः संता० पाता० ॥ २'त्योदितैर्दतं खंता० ॥ ३ गो दौत्यद खंता० ॥ , ४ 'नाजनैः खंता० पाता० ॥