________________
सङ्घपतिचरितापरनामकं
- चतुर्थः चक्रिणाऽथ बतायासौ, विसृष्टाऽष्टापदे गिरौ । दक्षा दीक्षां प्रभोः पार्श्वे, जगृहे गृहनिस्पृहा ॥ १४५ ॥ चक्रिराज्याभिषेकेऽथ, तस्मिन् द्वादशवार्षिके । आगता-ऽनागतान् लोकान् , प्रभुत्वादवलोकयन् ॥१४॥ निजानुजाननायातान्, विज्ञाय न्यायवित्तमः । तान् प्रति प्रेषयामास, दूतान् भूतलवासवः ॥ १४७ ॥
॥ युग्मम् ॥ यदि राज्यार्थिनस्तद्भोः 1, भरतं कुरुत प्रभुम् । दूतोक्तिमिति ते श्रुत्वा, जगदुर्भरतानुजाः ॥ १४८ ॥ विभज्य राज्यमस्माकमेतस्यापि भवत्प्रभोः । तातेन दत्तमस्मत्तः, स किमाच्छेतुमिच्छति ॥ ११९ ॥ अधिकेन न नः कार्य, रक्षितुं स्वं स्वयं क्षमाः । अयोग-क्षेमकृत् तस्मान्नाथः कथमयं भवेत् । ॥ १५० ॥ वलीयानथ यद्येष, निःशेषद्वेषिशातनः । तदेतु वयमप्येते, पितुस्तस्यैव सूनवः ॥१५१ ॥ किन्तु तातमनापृच्छय, वयं स्वच्छन्दकारिणः । अग्रजेन समं क्रोधाद् , योद्भुमीहामहे नहि ॥ १५२ ॥
इत्युक्त्वाऽष्टापदे गत्वा, नत्वा निर्वृजिनं जिनम् ।।
___ तत् ते भरतसन्दिष्टं, सर्वमूर्वीभुजोऽभ्यधुः सिञ्चन्निव सुधावृश्या, वसुधामृषभप्रभुः । तानुवाच ज्वलक्रोधवहेरहाय शान्तये ॥१५४ ॥ चपला चपलेव श्री त्यसौ भुवनान्तरे। कल्याणवाल्छया वत्सास्तत् तां गृहीत कि मुधा ? ॥ १५५ ॥ किश्च स्वःसम्भवै गैर्या तृप्तिरभवन्न वः । सा मर्त्यभोगैरङ्गारकारकस्येव किं भवेत् ? ॥ १५६ ॥ अङ्गारकारकदृष्टान्तः
तथासम्मोहतिं कश्चिद्, गृहीत्वाऽङ्गारकारकः । रीणवारिण्यरण्येऽगादङ्गारकरणोद्यतः॥ १५७ ।। भीष्मग्रीष्मार्ककार्कश्यकृशानुकृतया तृषा । स तृप्तिं नातवान् सर्व, पायं पायं पयो हतेः ॥ १५८ ॥ कचित् तरुतले सुप्तः, स्वमे सदनमागतः । परेत इव पानीयं, समग्रमपि सोऽपिवत् ॥ १५९ ॥ तथाऽप्यच्छिन्नतृष्णोऽयं, भ्रामं भ्रामं जलाशयान् । वहिरौर्व इवापूर्वः, सर्वानुामशोषयत् ॥ १६० ॥ अथैकं कश्मलक्षारदुरापसलिलं मरौ । कूपं प्राप्य भ्रमन् मेने, प्रत्यक्षं क्षीरनीरधिम् ॥ १६१ ॥ तत्रापि स तृषाऽऽक्रान्तः, पयसे कुशपूलकम् । संयोज्य रज्जुभिः क्षिप्त्वा, सरसं तरसाऽकृषत् ॥ १६२ ॥ अतिनिम्नतया कूपः, कुभूप इव सेवकात् । यातः स्वदत्तमादत्त, सर्वस्वं तृणपूलकात् ॥१६३ ।। पूलकादथ निश्चोत्य, पाश्चात्यास्तोयविषुषः । स चातक इवाम्भोदादुन्मुखस्तृषितः पपौ ॥ १६४ ॥ तत् तृष्णा याऽस्य नच्छिन्ना, वारिधेरपि वारिभिः। कि सा निरङ्कुशा पूलकुशाग्रपयसा त्रुटेत् ? ॥ १६५ ॥
युष्माकमपि तद्वत्साः!, या दिव्यैरपि नात्रुटत् । मर्त्यलोकभवैभोंगैः, कि सा तृष्णा त्रुटिष्यति ॥१६॥ श्रुत्वेति देशनां भर्तुर्लक्ष्मीसुखपराङ्मुखाः । अथाष्टनवतिर्मेजुस्ते व्रतं भरतानुजाः ॥ १६७ ॥ दूतास्ततो निवृत्त्याथ, स्वामिने विस्मयस्मिताः। सोदराणां यथावृत्तं, वृत्तान्तं ते व्यजिज्ञपन् ॥ १६८ ॥ अथ प्राज्यानि राज्यानि, तेषां भरतभूपतिः । जग्रसे सकलान्येष, सर्वान्नानीव भस्मकी ॥ १६९ ॥ . अपरेधुर्नृपश्रेणीवेणीसम्मार्जितक्रमम् । व्यजिज्ञपन्नृपं नत्वा, सुषेणो गर्वपर्वतः ॥ १७० ॥ कृत्वाऽपि दिग्जयं स्वामिश्चक्रमायुधमन्दिरे । एतद् विशति नाद्यापि, यथा शिष्यः शठो मैठे ॥ १७१ ॥ अथ सर्वोपधाशुद्धबुद्धिः सचिवपुङ्गवः । उवाच वाचमाचार्य, इव क्ष्मावासवाग्रतः ॥ १७२ ॥ .
१ स्वयं स्वच्छन्दकारिणा खता० ॥ २ °से निखिलान्येप खता० पाता० ॥ ३ मठम् पाता० ॥