________________
सर्गः ]
धर्माभ्युदयमहाकाव्यम् |
४१
॥ ११५ ॥
११६ ॥
॥
११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥
१२० ॥
१२१ ॥
१२२ ॥
॥
प्रणष्टेऽथ बले प्रौ, विद्याधरनरेश्वरौ । भरतेशं नमस्कृत्य, भक्तितो वाचमूचतुः त्वं क्षमस्व क्षमास्वामिन्नेतद् दुर्वृत्तमावयोः । प्रणिपातावधिः क्रोधः, सतां हि परिकीर्तितः ॥ स चिरत्नानि रत्नानि, नमिर्नमितमस्तकः । ढौकने ढौकयामास, क्षमाशक्राय चक्रिणे स्त्रीरत्नेनाथ कन्दर्पजगज्जयपताकया । स्थापत्येन भुवः पत्ये, प्राभृतं चिनमिर्व्यधात् एतौ च सुतयोर्न्यस्य, विद्याधरधुरीणताम् । गृहीतदीक्षौ तीर्थेशसेवामेवाथ चक्रतुः अथ त्रिपथगातीरे, सैन्यं न्यस्य नरेश्वरः । असाधयत् सुषेणेन, गाङ्गमुत्तरनिष्कुटम् तं चाष्टमतपःसम्पल्लम्पटीकृतमानसा । उपतस्थे स्वयं गङ्गादेवी विविधढौकनैः तदाऽसौ नृपमालोक्य, तस्मिन्नेवानुरागिणी । ईर्ष्ययेवेषुभिर्जघ्ने, विषमैर्विषमेपुणा असौ तत्रैव तत्प्रेमवारिवारणतां गतः । निनाय नायको भूमेः, सहस्राब्दीं घटीमिव अथ खण्डप्रपाताख्यां, गुहामभ्येत्य भूपतिः । नाट्यमालं सुरं तत्र, साधयामास पूर्ववत् ॥ गुहां तामप्यतिक्रम्य, तमिश्रावन्नरेश्वरः । सैन्यं निवेशयामास, सैकते सौरसैन्धवे तत्राष्टमेन तपसाऽसाधयद् वसुधाधवः । निधीन् यक्षसहस्रेण, प्रत्येकं कृतसन्निधीन् साधयित्वा सुषेणेन, गङ्गादक्षिणनिष्कुटम् । नृपोऽचालीदथायोध्यां प्रति सिहो गुहामिव ॥ १२७ ॥ सुखं सैन्यरजःकीर्णा, तुरङ्गैरुदतारि या । कष्टं मदाम्भोगम्भीरा, सैव शैवलिनी द्विपैः ॥ १२८ ॥ रथाश्चेलुर्जवाद् भूमेर्भ्रमयन्तो ध्वजांशुकम् । पत्तयोऽप्यनुकुर्वाणाः, कृपाणावर्तनैरिमान् ॥ १२९ ॥ गोरसप्राभृतभृतो, ग्रामवृद्धान् पदे पदे । भूपः स्वयमभाषिष्ट, तद्भाषा- मौग्ध्यकौतुकी इति क्ष्मापश्चमूरेणुपूरैः पिहितभानुभिः । एकच्छनामिव भुवं, निर्माय स्वपुरीं ययौ बिम्बितान् रत्नबप्राग्रे, तदा पौरैश्चमूचरान् । आरोहत इवारूढैर्दृष्ट्वा हृष्टैः करोऽर्पितः अभ्युद्यातस्ततः प्रातर्गौरवात् पौर-मन्त्रिभिः । सैन्यैरनुगतः पुण्ये, मुहूर्ते कृतमङ्गलः ॥ १३३ ॥ स्फुरत्कपाटपक्ष्माढ्यप्रतोलीनेत्रवर्त्मना । अथाविशत् पुरस्तस्या, हृदि सौभाग्यभूर्नृपः ॥ १३४ ॥ युग्मम् ॥ बन्दिवृन्दमुखाम्भोजस्फुरत्पट्पदशब्दितैः । भासुराभ्युदयो भाभिर्दिवाकर इवापरः
॥
॥
१२६ ॥
॥ १३० ॥
॥ १३१ ॥
॥ १३२ ॥
॥ १३५ ॥
॥
॥
१ 'नृत्यादि खता० ॥ २ 'तुकी पाता । 'तुकम् खता• ॥
ध० ६
१२३ ॥
१२४ ॥
१२५ ॥
१३६ ॥
॥
१३७ ॥
पश्यन्तीनां पुरो हारयष्टियुग्मेऽपि बिम्बितः । हृदि स्फुटीभवत्कामद्वितीय इव योषिताम् ॥ व्यालोलानिव कल्लोलानानन्दक्षीरनीरधेः । पश्यन् वातेरितान् केतुपटाननुनिकेतनम् भासुरं रभसाऽऽरब्धवाद्य-नृत्तादिकौर्तुकैः । कृतमाङ्गलिकं लोकं, मचे मचे कृतार्थयन् बालाः पुत्रीरिव तदा, सुप्रौढा भगिनीरिव । जननीरिव वृद्धास्तु निर्विकारं विलोकयन् समाससाद सदनं, सदनन्तगुणो नृपः । अमन्दानन्दसन्दोहकन्दो हरिषराक्रमः ॥ १४० ॥
॥
१३८ ॥
॥
१३९ ॥
॥ षड्भिः कुलकम् ॥
१४१ ॥
अभ्येत्याभ्येत्य भूपालैः, क्रमशः परिकल्पितम् । स भेजे चक्रवर्तित्वाभिषेकं द्वादशाब्दिकम् ॥ स पश्यन् स्वजनान् सर्वान्, सुन्दरीं मन्दिरोदरे । ददर्श कर्शिताकारां, कलामिव कलावतः १४२ ॥ कृशत्वकारणं तस्याः, साक्षेपमथ भूभुजा । ऊचुर्नियोगिनः पृष्टा, नास्माकं देव ! दूषणम् ॥ १४३ ॥ प्रभोः षष्टिसहस्राब्दी, दिग्जयादिदिनादियम् । आचाम्लानि चकारोच्चैर्ब्रतग्रहणाग्रहा
॥
॥ १४४ ॥