SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ४० सङ्घपतिचरितापरनामक" । छत्रदण्डोपरिन्यस्तमणिरत्नप्रभावतः । शममन्तस्तमः प्राप, सम्पुटे च्छन-चर्मणोः .. . ॥८॥ प्रातरुतानि धान्यानि, गृहिरलेन चर्मणि । निष्पत्तिमापुः सन्ध्यायां, तथा शाक-फलाद्यपि - ॥ ८८ ॥ अन्नैः शाकैः फलाद्यैश्च, गृहिरत्नप्रभावतः । सद्यः प्रतिगृहं प्राप्सर्लोकः स्वर्गीव सोऽभवत् ॥ ८९ ।। तरदण्डमिवालोक्य, तल्लोकैः सम्पुटं जले । भुवनेषु कृता शके, ब्रह्माण्डमिति कल्पना ॥९ ॥ 1, सप्तमेऽह्नि व्यतिक्रान्ते, चक्री चिन्तामिति व्यधात् । {: : प्रत्यनीकं ममाप्युच्चैः, प्रत्यनीको नु कोऽम्बुदः ॥९१ ॥ अथ तस्य प्रभोश्चित्तानुवर्तनपराः सुराः । सहस्राः षोडशाप्युद्यन्द्रकुटीभङ्गभीषणाः ॥ ९२ ॥ गत्वा मेघमुखान् देवान् , नेत्रारुणविभानिभात् । उद्गिरन्त इव क्रोधमिदं वचनमूचिरे ॥९३ ॥ 1: .. अरे रे ! केन वो दत्ता, दुर्दैवेनेहशी मतिः । 1! ... !, चक्री न यदि दृष्टोऽयं, तत् किं नाम्नाऽपि न श्रुतः ? . . ॥९४ ॥ यात तद् दूरतः क्रूराः!, नैव यावदयं प्रभुः । दम्भोलिनेव चक्रेणाभिहन्ति भवतां शिरः ॥९५ ॥ इति यक्षवचः श्रुत्वा, तैर्दुतं विद्रुतं ततः । दुग्धधौतमिव व्योम, वैमल्यमभजत् तदा ॥९६ ॥ दौकने स्वर्ण-माणिक्य-गज-वाजिबजानथ । आदाय म्लेच्छपाः सर्वे, भरतं शरणं ययुः ॥ ९७ ॥ भरतोऽपि प्रसयैतान् , विससर्ज महाशयः । नतेषु पक्षपातित्वमुत्तमानां हि. लक्षणम् ॥९८ ॥ सिन्धोरथोत्तरं वार्धिगिरिसीमान्तनिष्कुटम् । जित्वा सुषेणतश्चक्री, ययौ क्षुद्रहिमालयम् ॥ ९९ ॥ दक्षिणेऽथ नितम्बेऽस्य, न्यस्य सैन्यं नरेश्वरः । व्यधादुद्दिश्य हिमवत्कुमारं स तपोऽष्टमम् ॥ १०० ॥ रथारूढोऽष्टमान्तेऽथ, स्थाग्रेण हिमाचलम् । त्रिस्ताडयित्वा हिमवत्कुमारस्येषुमक्षिपत् ॥ ११ ॥ द्वासप्ततिमथो गत्वा, योजनान्यम्बरात् पतन् । हिमाचलकुमारेण, वीक्षितः स शरः पुरः ॥ १०२ ।। • विद्यामिवाथ कोपामेः, स्तम्भनीं स कुमारकः । , ।। वीक्ष्य नामाक्षरश्रेणिं, काण्डदण्डेऽतिभक्तिमान् सुमनःसुमनोमालां, तथा गोशीर्षमौषधीः । ह्रदाम्भः कटकान् वाहुरक्षान् दिव्यांशुकान्यपि ॥ १०४ ॥ ! . . .' गत्वा भरतपादान्ते, प्राभृतीकृतवानयम् । महात्मनां हि पुण्यानि, किं न यच्छन्ति वाल्छितम् ॥ १०५॥ विशेषकम् ॥ आर्षमिस्तं विसृज्याथ, चलितः कलितः श्रिया ।जघानर्षभकूटादि, त्रिः शीर्षेण स्थस्य सः ॥ १०६ ॥ तत्पूर्वकटके चक्री, काकिणीरत्नतोऽलिखत् । चक्रवर्त्यवसर्पिण्यां, भरता प्रथमोऽस्म्यहम् ॥ १०७ ॥ व्यावृत्त्याथ गतः सैन्ये, पारणं वैरिवारणः । विधायाष्टाह्निकां चक्रे, तत्र कृत्यविचक्षणः ॥१०८ ॥ अथ निदैन्यसैन्योऽयं, चक्री चक्रमनुव्रजन् । उदग्नितम्बे वैतात्यगिरेः सैन्यं न्यवीविशत् ।। १०९ ॥ तस्मिन् नमि-विनम्याल्यौ, जेतुं विद्याधरेश्वरौ । अक्षिपत् क्षितिपः क्षिप्रमभमप्रसरं शरम् ।। ११० ॥ अथ तौ कुपितौ वीक्ष्य, चक्रनायकसायकम् । प्राप्तौ साकं निजानीकैयुद्धश्राद्धांसदुर्धरौ ॥१११ ।। समं विद्याधरबलैयोनि विद्याधरेश्वरौ । विलोक्य समरं घोरमारेमे भरतेश्वरः ॥११२ ॥ दोर्दण्डयोः समारोप्य, कोदण्डं विदधे तदा । जयश्रियः प्रवेशाय,, भरतो रणतोरणम् ॥ ११३ ॥ अथ द्वादशवर्षान्ते, वर्षान्त इव भास्करः । करैरिव शरैश्चक्री, विपक्षानक्षिपद् घनान् ॥११४ ।। १ न्योऽसौ, चक्री खता० ॥ ... .. .. .:
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy