________________
चतुर्थः सर्गः।
इतश्च भरतश्चक्री, शस्त्रागारगतः स्वयम् । भक्त्या चक्रं नमश्चक्रे, क्षत्रप्रत्यक्षदैवतम् ॥१॥ पूजां नित्यं वितन्वानो, नवनैवेद्यमेदुराम् । अष्टाह्रिकोत्सवं चक्रे, तत्रैव निवसन्नसौ ॥२॥ अथ प्रस्थानिके लमे, कृतप्रस्थानमङ्गलः । अनुचक्रं दिशि प्राच्यां, करिरलेन सोऽचलत् ॥३॥ छत्र-चर्मा-श्व-सेनानी-खग-दण्ड-पुरोधसः । कुटुम्बी मणि-काकिण्यौ, वर्धकिश्च नृपानुगः ॥४॥ चचाल रत्नस्तोमोऽयं, देवताकृतसन्निधिः । दिगन्तभूपतीनां तु, चकम्पे हृदयावनिः ॥५॥
॥ युग्मम् ॥ चेले समं ततस्तेन, सामन्तैश्च समन्ततः । सितांशुनेव नक्षत्रैः, स्फुरत्तेजोमयात्मभिः ॥६॥ तरङ्गरिव पाथोघेस्तुरङ्गैर्वायुचञ्चलैः । चलितं कलितोत्साहैः, प्रतिकूलेऽप्यभङ्गुरैः अथ प्रतस्थे वेगेन, हास्तिकं गर्जितोर्जितम् । प्रत्यर्थिक्षितिभृत्तेजोदाववारिदमण्डलम् ॥८॥ निजानाकारयन्तोऽथ, कारयन्तोऽरितर्जनम् । ध्वजाञ्चलैश्चलैश्चेलुः, समेनैव पथा रथाः ॥९॥ अनुचक्रं व्रजन्तीव, द्विगव्यूतिप्रयाणकैः । तीरे नीरेशितुः प्राप, पतिप्रीत्येव वाहिनी । ॥१०॥ तत्र वर्षकिरत्नेन, निर्मितानमितनियः । आवासानावसन्ति स्म, सैनिकाः स्मेरविस्मयाः ॥ ११ ॥ चक्रे पौषधशालां च, विशालां रलशालिनीम् । वर्धकिर्वर्धितानन्दश्चक्रिणः पुण्यपुजवत् ॥ १२ ॥ तस्यामुत्तीर्य सद्वीर्यः, कुञ्जराद् राजकुञ्जरः । प्रविवेश नभोदेशमिवार्कः पूर्वपर्वतात् ॥१३॥ दर्भसन्दर्मनिष्पन्नस्रस्तरे स्रस्तपातकः । उपवासत्रयं चक्रे, तत्र वक्रेतराशयः अथ प्रथितचातुर्यस्तुर्येऽहनि महामहाः । सुगन्धिभिर्जलैः खातो, वली वलिविधि व्यधात् ॥ १५ ॥ सर्वाण्यस्त्राण्युपादाय, शक्रदायादविक्रमः । अथारूढो रथं चक्री, गरुत्मन्तमिवाच्युतः ॥१६॥ नामेयभू रथं नाभिद्वयसे पयसि स्थिरम् । विरचय्य समुद्रान्तः, समुन्मुद्रितकार्मुकः ॥१७॥ सौवर्ण विस्फुरद्वर्ण, नामाङ्कितमथो शरम् । पुलमध्यमुखाधीशसुपर्णभुजगासुरम् ॥ १८ ॥ दिशि मागधतीर्थस्य, पत्युरत्युज्ज्वलाकृतिम् । मापश्चिक्षेप साक्षेपं, विद्युद्दण्डमिवाम्बुदः ॥ १९ ॥
॥ विशेषकम् ॥ सभायां मागधेशस्य, पक्षसूत्कारदारुणः । स चेषुर्वेगसम्पन्नः, पन्नगारिरिवापतत् ॥२०॥ अथ अकुटिभीमास्यः, सलास्याधरपल्लवः । बालार्कशोणहक्कोणः, प्राह मागधतीर्थपः ॥२१॥ जिघृक्षुः को हरेर्दष्ट्रां, कः क्षेप्ता ज्वलने पदम् ? । प्रान्तारघट्टचक्रारमध्ये कः कुरुते करम् ॥ २२ ।। क एष मयि निःशेषशस्त्रविस्तृतकौशले. । अक्षिपन्मार्गणं मृत्युमार्गमार्गणदूतवत् ? ॥२३॥ इत्युत्तस्थौ समं वीरेधीरैः कोपातिपाटलैः । स निस्विंशैः स्फुरद्धूमै लावतरिवानलः ॥२४॥ अथ व्यालोकयामास, तन्मन्त्री तस्य पत्रिणः । अक्षराणि फले दूतजिह्वायामिव शुद्धधीः ॥२५॥
१ वर्णवि खंता० ॥