SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३६ सङ्घपतिचरितापरनामकं ॥ क्षिप्तेः पुरः सुरैः सोऽर्धमर्धार्धं चक्रिणा पुनः । यथाविभागमन्यैश्यं, जगृहे गृहमेधिभिः अथ द्वितीय पौरुष्यां, देवच्छन्दं गते प्रभौ । पुण्डरीकमुनेर्व्याख्यां श्रुत्वा जग्मुर्जना गृहान् ॥ सदा गोमुखयक्षेण, देव्या चाऽप्रतिचक्रया । अमुक्तसन्निधिः स्वामी, सर्वातिशयभाजनम् ॥ ३६१ ॥ पावनीमवनीं कुर्वन्, कोटिदैवतसेवितः । नानास्थानान्यथाक्रामन्, विजहारान्यतस्ततः ॥ ३६२ ॥ ॥ युग्मम् ॥ इति ज्ञानोद्योतप्रशमितसमस्तान्तरतमाः, क्रमात् क्रामन्नुर्वीतलैमतुललोकम्पृणगुणः । स्फुरन्मार्गालोकं सकलमपि लोकं विरचयन्, विवस्वान् विश्वाब्जे कृतसुकृतलक्ष्मी जिनपतिः in ! - ॥ ३६३ ॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीऋषभस्वामिजन्म-त-ज्ञानवर्णनो नाम तृतीयः सर्गः ॥ 2 [ तृतीयः ३५९ ॥ ३६० ॥ 31 या श्रीः स्वयं जिनपतेः पदपद्मसद्मा, भालस्थले सपदि सङ्गमिते समेता । श्रीवस्तुपाल ! तव भालनिभालनेन, सा सेवकेषु सुखमुन्मुखतामुपैति ॥ ॥ मैन्थाग्रम् ३६८ | उभयम् ९४५ ॥ १ सः पतन् सुरैः खंता० पाता० ॥ २ 'लतिलकलो' संता• ॥ ३ श्लोकोऽयं पाता० प्रतौ द्वितीयसर्गप्रान्ते वर्त्तते ॥ ४ ग्रन्थाग्रम् ३६५ । उभयं ९३३ ॥ इति पा०||
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy