________________
सर्गः1 धर्माभ्युदयमहाकाव्यम।
३५ स्वयमेवाथ पश्यन्त्यास्तस्यास्तद् वैभवं विभोः । विलीनं मनसा सद्यः, परानन्दामृतद्रवैः ॥ ३३२ ॥ तदैव केवलज्ञानं, तस्याः प्रादुरभूत् ततः । प्राप्येव तपसा मातुः, प्रभुणा प्राभृतीकृतम् ॥ ३३३ ।। अन्तकृत्केवलीभूय, लोकान्तमथ साऽगमत् । मन्ये मुक्तिपुरद्वारमपवारयितुं पुरः ॥३३४ ॥ अस्यामस्यावसर्पिण्यां, प्राच्यसिद्धस्य तद् वपुः । त्रिदशैनिदधे तूर्णं, सत्कृत्य क्षीरनीरधौ ॥ ३३५ ॥ ततः प्रभृति लोकेषु, वृत्तं मृतकपूजनम् । सर्वो हि दर्शितां पूर्ववर्तनीमनुवर्तते
व्याप्तोऽथ हर्ष-शोकाभ्यां, बद्धस्पर्ध धराधवः ।। निशां प्रान्त इव ध्वान्त-प्रकागाभ्यामभूत् समम्
।। ३३७॥ पत्तिर्विमुक्तच्छत्रादिर्दूरादूरीकृताञ्जलिः । देशनासदनस्यान्तः, प्रविवेश विशांपतिः ॥ ३३८ ॥ त्रिश्च प्रदक्षिणीकृत्य, नमस्कृत्य जगद्गुरुम् । यथास्थानं निविष्टोऽथ, प्रहृष्टो भरतेश्वरः ॥ ३३९ ।। अथाऽऽयोजनगामिन्या, सर्वभाषानुरूपया । गिरा जगद्गुरुस्तत्र, विदधे धर्मदेशनाम् ॥३४० ॥
असावसारसंसारवनसेचनसारणिः । दूरेण युज्यते त्यक्तुं, मोहनिद्रा महात्मनाम् ॥ ३४१॥ मोहभिल्लेशपल्लीव, तदिदं भवकाननम् । पुण्यरत्नहरैः क्रूरैश्चौरै रागादिभिर्वृतम् ॥३४२ ॥ अनाविले कुले जन्म, दुर्लमेभ्योऽतिदुर्लभम् । चिन्तारलमिव प्राप्य, हार्यते किंमुधा बुधाः! ॥ ३४३ ॥ यतध्वमपवर्गाय, तन्निर्विण्णा भवाद् यदि । स हि सर्वापदां पारमपारानन्दमन्दिरम् ॥ ३४४ ॥ प्राप्यते प्राणिभिर्नायं, धर्मस्याराधनां विना । किं कदापि क्वचिद् दृष्टस्तरहीनः फलोद्गमः ॥ ३४५ ।।
तस्य सुश्रमणो वा स्यान्मूलोत्तरगुणोत्तरः ।।
श्राद्धो वाऽऽराधकः सम्यक् , सम्यक्त्वा-ऽणुव्रतादिभृत् । एतौ मोक्षस्य पन्थानौ, मन्थानौ भववारिधेः । कामं श्रामण्य-गार्हस्थ्यधर्मी शाश्वतशर्मदौ ॥ ३४७ ॥ यानि चक्रिपदादीनि, स्पृहणीयानि देहिनाम् । असौ कुसुमसम्पत्तिस्तस्य धर्ममहीरुहः ॥ ३४८ ।। फलं तु परमानन्दरसनिःप्यन्दसुन्दरम् । महोदयमयं किञ्चिल्लोकोत्तरमनश्वरम् ॥ ३४९ ॥ श्रुत्वेति देशनां भर्तुर्भरतस्याङ्गजन्मभिः । शतैः पञ्चभिरानन्दान्नसृभिः सप्तभिः शतैः ॥ ३५० ।। तथा सोदरया ब्राहया, परब्रह्मार्पितात्मभिः । तैस्तै+पभसेनाथैः, साग्रहैर्जगृहे व्रतम् ॥ ३५१ ॥
॥ युग्मम् ॥ दीक्षां तदाऽऽददे किञ्च,मरीचिश्चक्रिनन्दनः।सादरं सुन्दरी किन्तु, चक्रिणा वारिता तात् ॥ ३५२ ॥
नतिनः पुण्डरीकाद्याः, साठ्यो ब्राझीपुरःसराः।
श्राद्धाः सोमात्मजप्रष्ठाः, श्राविकाः सुन्दरीमुखाः ||३५३ ॥ इत्थं चतुर्विधः सङ्घः, स्थापितः प्रभुणा तदा। पूज्यतेऽद्यापि विश्वेऽस्मिन् , देव-दानव-मानवैः॥ ३५४ ॥ श्रीपुण्डरीकमुख्यानां, यतीशानां जगद्गुरुः । ततश्चतुरशीतेरप्यादिदेश पदत्रयीम् ॥३५५ ।। तेऽप्युत्पाद-व्यय-प्रौव्यरूपां प्राप्य पदत्रयीम् । वितेनुरद्भुतप्रज्ञा, द्वादशाङ्गानि लीलया ॥ ३५६ ।। शकानीतैरथो दिव्यैस्तूर्णं चूर्णैर्जगत्प्रभुः । अनुयोग-गणानुज्ञे, यच्छंस्तानभ्यषिञ्चत ॥ ३५७ ।। जातेऽथ पौरुषीकाले, सकलैर्निस्तुपाक्षतैः । क्लप्तः समङ्गलाचारं, बलिः पूर्वदिशाऽविशत् ॥ ३५८ ।।
१ निशाणा खता० ॥ २ अथ यो संता० ॥ ३°भ्योऽपि दुर्ल' खता० पाता० ॥ ४ श्रवणो वता० ॥ ५ क्वादिन वता० ॥