________________
३२
सङ्घपतिचरिता परनाम
[ तृतीयः
विभुं विहाय नाभेयं, नावां सेवावहे परम् । को हि रोहणमासाद्य, प्रपद्येतापरं गिरिम् ॥ २४९ ॥ इति प्रतिज्ञामाधाय प्रणिपत्य पितृक्रमान् । प्रभुं गत्वा च नत्वा च, तौ व्यजिज्ञपतामिति ॥ २५० ॥ क्षेत्रमात्र्यपि किं तात !, भागेऽस्माकं न भूरभूत् ? । विज्ञप्तोऽपीति नैताभ्यां वाचं वाचंयमो ददौ
।। २५१ ॥
॥ २५२ ॥
॥ २५३ ॥
॥ २५४ ॥
व्यधत्तामतिभक्त्या तावप्यवक्तरि भर्तरि । सेवामेवान्वहं के वा, हेवाकं मोक्तुमीशते ? भौ विभुः स्थितो मध्ये, स तत्पाणिकृपाणयोः । परास्तयोरिव शिवपुरद्वारकपाटयोः अपरेद्युः परश्रद्धाधरणो धरणोरगः । अपश्यन्नमि-विनमी, सेवकौ विनमन जिनम् कौ युवां ? संश्रितो किंवा, मौनध्यानधनं जिनम् ? | कर्ता किमर्यः कार्यं वामित्युक्तौ भोगिभूभुजा ||२५५|| तावूचतुश्चतुर्बाहुविक्रमौ भोगिनां विभुम् । सेवैव सेवकैः कार्या, चिन्ता किं तादृशी प्रभोः ॥ २५६ ॥ ॥ युग्मम् ॥
एतस्य मौनयुक्तस्य, धनमुक्तस्य सेवया । यद् भवेत् तेन नो कार्यमेकः सेव्यो हि मानिनाम् || २५७ ॥ सेविते तत् किमन्यत्र, निर्धनेऽप्यत्र यत् फलम् ? । दीपे व तज्जगद्दीपे, मेघच्छन्नेऽपि यन्महः ॥ २५८ ॥ तयोः फणिपतिः प्रीतः प्रज्ञप्तिप्रमुखां ददौ । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्रिकाम् ॥ २५९ ॥ विद्याः किलैता वैताढ्यमेखलादक्षिणोत्तरे । प्रभावं प्रथयिष्यन्ति, भवतोरित्युवाच च प्रभुप्रभावसम्प्राप्तविद्यौ हृद्यौजसाविमौ । गतौ वैताढ्यमावेद्य, पितृभ्यां भरताय च
॥ २६० ॥
॥ २६१ ॥
वर्ष वसुन्धराहारो, निराहारोऽप्यथ प्रभुः । भ्रमन् बहुषु देशेषु, क्षुधाक्षामीकृताकृतिः ॥ २६२ ॥ अवधिज्ञानतो ज्ञात्वा तदा पारणकारणम् । पुरं गजपुरं प्राप, द्विपस्तप्त इवांहिपम् ॥ २६३ ॥ ॥ युग्मम् ॥
तत्र बाहुबलेः पौत्रः, स्वप्ने सोमप्रभात्मभूः । श्रेयांसो धूसरं मेरुं क्षीरैरक्षालयत् तदा ॥ २६४ ॥ प्रापि सोमप्रमेणापि, स्वमः किल महाभटः । रिपुभ्योऽमोचि रोचिष्णुः, श्रेयांसेनाद्भुतश्रिया ॥ २६५ ॥ अदर्शि भास्करः स्वप्ने, श्रेष्ठिनाऽपि सुबुद्धिना । अतिभास्वान् किल भ्रष्टैः, करैः श्रेयांसयोजितैः ॥ २६६ ॥ विचाराय प्रगे सोमप्रेक्ष्मापसभान्तरे । स्वमार्थ तेष्वजानत्सु, मिलितेषु समन्ततः
॥
२६७ ॥
२६८ ॥
२६९ ॥
पुरं त्रिभुवनस्वामी, व्योमदेशमिवांशुमान् । विहर्तु प्रविवेशाथ, विष्ण्याद्धिष्ण्यान्तरं चरन् ॥ अगृह्णति जिने भिक्षां, हस्त्यश्व-वसनादिकाम् । लोला: कोलाहलं चक्रुः, प्रजाः सायंव्रजा इव ॥ प्रेषितस्तुमुलं ज्ञातुं, प्रत्यागत्य व्यजिज्ञपत् । प्रतिहारः कुमाराय वेगादागमनं प्रभोः ॥ २७० ॥ नापदस्तापदायिन्यः, प्रभवन्ति प्रभोः पुरः । श्रेयांस इति निर्मुक्तच्छत्रोपानदुपागमत् ॥ २७१ ॥ नमस्कृतप्रभुः सोऽथ, किङ्कर्तव्यविमूढधीः । श्रेयांसः शिश्रिये जातिस्मृत्याऽब्धिरिव वेलया ॥ २७२ ॥
पूर्वं पूर्वविदेहेषु, वज्रसेनं जिनाङ्गजः । वज्रनाभोऽभवच्चक्री, सोऽहमेतस्य सारथिः ॥ २७३ ॥ महाव्रतं मया साकमीदृग्मुद्राभृतस्तदा । पार्श्वे पितुरवापायमनपाय सुखेच्छया ॥ २७४ ॥ वज्रसेनजिनेन्द्रेण तदाऽऽदिष्टमिति स्वयम् । भविता व्रजनाभोऽयं भरते प्रथमो जिनः ॥ २७५ ॥ तदयं स दयाराशिः, पयोराशिगभीरिमा । दिष्ट्या दृष्ट्या मया दृष्टश्वकोरेणेव चन्द्रमाः ॥ २७६ ॥ निश्चित्येदं तदा जानन्, भिक्षाकल्प मनल्पधीः । ददाविक्षुरसं भर्तुः, श्रेयांसस्तत्क्षणागतम् ॥ २७७ ॥ १ प्रभः क्ष्मा खंतासं० पातासं० ॥ २ 'ननृपाङ्गजः खंता० ॥
#