________________
सर्गः
।
धर्माभ्युदयमहाकाव्यम् । एकदेहविनिर्माणादधमर्णीकृतैः सुतैः । यशो-धर्ममयं देहद्वयं पित्रोर्वितीर्यते ॥ २२२॥ श्रुत्वा सुरा-ऽसुरैर्मान्यामाज्ञामिति जगत्पतेः । न्यग्मुखो भरतस्तस्थावदत्तपुनरुत्तरः ॥२२३ ॥ हृष्टाः स्वामिसमादिष्टाः, सचिवास्तदनन्तरम् । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ॥ २२४ ।। तद्धाहुबलिमुख्यानामपि बाहुबलस्पृशाम् । विभुर्विभज्य भूभागान् , नन्दनानां तदा ददौ ॥ २२५ ॥ ततश्च वार्षिकं दानं, निदानं पुण्यसम्पदाम् । प्रभुः प्रवर्तयामास, वितैर्वित्तेशपूरितैः ॥२२६ ॥
. अष्टलक्षाधिका तत्र, कोटिमेकां च काश्चनीम् । प्रातः प्रारभ्य मध्याहं, यावद् देवोऽन्वहं ददौ
॥ २२७॥ भागेऽहः पश्चिमे चैत्रश्यामाष्टम्यामथ प्रभुः । चन्द्रमस्युत्तराषाढाभाजि भेजे व्रतोद्यमम् ॥ २२८ ॥ व्रताय विपिने गन्तुमथ प्रथमपार्थिवः । याप्ययानं समारोहन्मोहराजपराजयी ॥ २२९॥ शिविकासविकासान्तःश्रद्धाबन्धोद्धरैनरैः । ऊढा प्रौढैश्च गीर्वाणैर्दासवद् वासवादिभिः ॥२३० ।। दिव्यैरातोद्यनिर्घोषैर्नृणां जयजयस्वनैः । सिंहनादेर्दिविषदां, मागधध्वनिवर्द्धितैः ॥ २३१ ॥ शब्दाद्वैतमयीं कुर्वन्नुवींमुवीं वहन् मुदम् । विभुर्जम्भारि-रम्भादिनृत्ते दवेक्षणः क्षणम् ॥२३२ ॥ पूर्दशो भृङ्गयन्नङ्गे, जितचम्पकसम्पदि । भरताथैः समं स्वामी, सिद्धार्थवनमागमत् ॥ २३३ ।।
॥ विशेषकम् ।। शिबिकायास्तदोत्तीर्य, किङ्किल्लिद्रुतले द्रुतम् । स्वयं जगदलङ्कारोऽलङ्कारानत्यजद् विभुः ॥२३४ ।। शक्रः स्कन्धेऽथ देवस्य, देवदूष्यं न्यवेशयत् । निर्मलं केवलज्ञानाग्रयानमिव मूर्तिमत् ॥ २३५ ॥ तीर्थङ्करः कराम्भोजे, भृङ्गतां बिभ्रतः क्षणम् । मूर्ध्नश्चतसृभिः केशानुच्चखानाथ मुष्टिमिः ॥ २३६ ।। केशाः सुवर्णवर्णेऽङ्गे, सन्तु नीलमणिनियः । इत्युक्तः पञ्चमी मुष्टिममुचन्नमुचिद्विषा ॥२३७ ॥ लज्जया मजयन्नीलरत्नानि क्षीरनीरधौ । शक्रेणाथ तदक्षेपि, केशमुष्टिचतुष्टयम् ॥२३८ ॥ आगत्याथ धुनाथेन, तुमुले मुकुलीकृते । कृताष्टमतपाः स्वामी, कृत्वा सिद्धनमस्कृतिम् ॥ २३९ ।। सर्वसावद्ययोगानां, प्रत्याख्यानमुदीरयन् । भवाब्धिपोतश्चारित्रं, तदाऽरित्रमिवासदत् ॥२४०॥ नारकाणामपि प्रीतिस्फीतं विरचयन् मनः । तन्मनःपर्ययज्ञानमुत्पेदे त्रिजगत्पतेः ॥२४१ ॥ चतुःसहस्रसङ्ख्यैश्च, समं भर्ना समन्ततः । भूपैः कच्छ-महाकच्छमुख्यैर्दीक्षां तदाऽऽददे ॥ २४२ ॥ स्तुत्वा नत्वा च यातेषु, सुतेषु त्रिदशेषु च । विहर्तुमिह मौनेन, स भूचक्रे प्रचक्रमे ॥ २४३ ॥
प्रभुणा भ्रमता भिक्षा, प्रापि न वापि पारणे । भिक्षानभिज्ञः स्वर्णादि, तदा लोको ह्यढौकयत्
॥२४४॥ यां निर्वास्य चिरस्यापि, वसन्तीं जनवेश्मसु ।यः श्रियं वासयामास, सा भिक्षा किमुपैतु तम् ॥ २४५ ॥
तथाऽप्यनार्तः क्षुत्तृष्णाद्याज्ञैः कच्छादिभिः प्रभुः । आलोच्यौमोचि तस्थे च, गङ्गाप्रस्थे फलाशिभिः
॥ २४६॥ अथ कच्छ-महाकच्छसुतौ पूर्व नियोजितौ । तदा नमि-विनम्याख्यौ, पित्रोः पादान्तमीयतुः ॥२४७॥ अर्थतौ प्रेषितौ ताभ्यां, सेवितुं भरत प्रभुम् । ऊचतुश्चतुरं साभिमानमानसविक्रमौ ॥२४८ ॥
१ कति खंता० पाता० ॥ २ चीर्णाष्ट खता० पाता० ॥ ३ °च्याथोऽवतस्थे पाता० ॥ ४ 'रतप्रभुम् खंता० पाता० ॥ . .