________________
सङ्घपतिचरितापरनामकं
। तीयः कीर्णकर्णसुधावर्ष, यति-मान-लयान्वितम् । भावहस्तक-दृक्चारी, चारुनृत्तमनोहरम् . : ॥,१९३ ॥ ग्राम-रागोज्वलस्फीतगीतप्रीतजगज्जनम् । सङ्गीतकं प्रभुस्तत्र, प्रीत्याऽत्यर्थ कृतार्थयन् । ॥ १९४ ॥ ' अन्यतः प्रमदोद्दामप्रमदाजनचच्चरीः । परतः पौरलोकानामापानकमहोत्सवम् ॥ १९५॥
अपरत्रापि लोलाक्षीर्दोलान्दोलनखेलिनीः । ., पश्यन् प्रमुदितः स्वामी, चिन्तयामासिवानिति ॥ १९६ ॥ पञ्चभिः कुलकम् ।। किं कदाऽपि मया क्वापि, सुखमीहक्षमीक्षितम् । । ददृशे विमृशन्नेवमवधिज्ञानतः प्रभुः ॥१९७ ॥ आत्मनैवानुभूतं यत् , पुरा वैषयिकं सुखम् । अनुत्तरविमानान्तस्त्रिदिवेषूत्तरोत्तरम् ।। १९८ ॥ युग्मम् ।। विभुर्विभावयामास, स्वभावं भविनां ततः । जानन्तोऽपि हि मोहेन, जीयन्ते हन्त ! जन्तवः ॥ १९९ ॥ यदनन्तभवाभ्यस्तं, सुखं विषयसम्भवम् । अपूर्वमिव मन्यन्ते, बुभुक्षव इवाशनम् , ॥.२०० ॥ दुःखहेतुषु तत्त्वेन, सुखेच्छा विषयेषु या । साऽपि मोहस्य माहात्म्यं, सुधाबुद्धिविषेष्विव ॥ २०१॥ . अर्यमानोऽपि नोपैति, नोपेतोऽप्यवतिष्ठते । स्थितोऽपि न सुखं दत्ते, मत्तेभो, विषयव्रजः ॥ २०२॥ मल-मूत्रादिपात्रेषु, गात्रेषु मनुजन्मनाम् । सचेतसामसावस्तु, वस्तुतः कैव काम्यता.. ॥२०३ ॥ अस्थिखण्डेषु दन्तेषु, कुन्दसुन्दरतामतिम् । मलक्षेत्रेषु नेत्रेषु, नीलोत्पलदलश्रमम् ॥२०४ ॥ श्लेष्मादिदोषवृक्षाणां, कानने वनितानने । सुधांशुबुद्धिं बध्नन्ति, धिगमी मोहमोहिताः ॥ २०५॥
॥युग्मम् ॥ . किश्चात्र चक्रि-शकाद्यैरप्यनाक्रान्तविक्रमे । नित्यमत्यन्तमुद्युक्ते, मृत्यौ स्वैरिणि वैरिणि ॥२०६ ॥ जरायां रूपसर्वस्वहरायामस्खलगतौ । यौवनं वनवद् भस्मीकुर्वत्यां पलितच्छलात् ॥२०७॥ अशेषसुखसन्तानकाननाशनिसन्निभे । विविधव्याधिसम्बन्धे, बाधामाधातुमुद्धते . . ॥२०८ ॥ विभवे विनसङ्घातघातसम्पातकातरे । उत्पातवातनिधूतपताकाञ्चलचञ्चले
॥२०९ ॥ संसारचारकक्षिप्तो, महामोहतमोहतः । ध्वस्तालोकः कथं लोकः, क्रीडारसवशंवदः ॥२१० ।।
॥ पञ्चभिः कुलकम् ।। ततः संसारकारान्तर्निवासं प्रति सम्प्रति । विरज्य युज्यते मुक्तेरध्वन्यध्वन्यतैव मे ॥२११ ।। तदा पदान्तिकप्राप्तैरथ लोकान्तिकैः सुरैः । समयज्ञोऽपि कल्पज्ञैर्व्यज्ञप्यत जगत्पतिः ।। २१२ ।। राज्यवत् प्रथमं नाथ!, धर्मतीर्थ प्रवर्तय । कृतिन् ! कृत्यं जगज्जन्तुहितस्मर! जितस्मर ! ॥२१३ ।। इति विज्ञप्य यातेषु, तदा तेषु जगत्पतिः । आनन्दी नन्दनोद्यानात् , सदासदनमासदत् ॥ २१४ ॥ अथाकार्य तदा हर्षभरतो भरतं सुतम् । समं समस्तसामन्त-बाहुबल्यादिनन्दनैः ॥२१५॥ आदिदेश विभुर्वत्स !, भव राज्यधुरन्धरः । भावयन्तो वयं तोष, ग्रहीष्यामो हि संयमम् ॥ २१६ ॥ . विचक्षणः क्षणं वीक्ष्य, विभोर्मुखमवोचत । सादरं भरतः स्वामिसेवारम्भरतस्ततः ॥२१७ ॥ त्वदने गच्छतः क्षोणिपरागैरङ्गसङ्गिमिः । प्रथते मे यथाऽऽनन्दश्चन्दनैरपि नो तथा ॥२१८ ॥ प्रीता नित्यं भवत्पादसेवासुखसुधारसैः । स्वामिन् ! साम्राज्यभोगाय, रमते न मतिर्मम ॥२१९ ॥ जगदे जगदेकाधिनाथेनाथेदमङ्गजः । वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥२२०॥ अङ्गजा अपि ये कुर्युगुर्वाज्ञां तेऽत्र नन्दनाः । अन्ये तु स्नेहभाजोऽपि, त्याज्या एव मला इव ॥ २२१॥ ___ ११ नृत्यम खंता० ॥ २ नात्तनिदि पाता० ॥ ।