________________
सर्गः] ।
धर्माभ्युदयमहाकाव्यम् । विशतौ पूर्वलक्षाणां, पूर्णायां जन्मतो विभुः । अयोध्यायामभूद् भूपः, प्रजापालनपण्डितः ॥ १६४ ॥ रूक्षखिग्धेन कालेन, जातेऽनौ तरुषु स्वयम् । स्वामिना चक्रिरे कुम्भकारप्रमुखकारवः ॥ १६५ ॥ भरताय कला बाहुवलयेऽश्वादिलक्षणम् । सुन्दय गणितं ब्राहयै, लिपीरप्यादिशत् प्रभुः ॥ १६६ ॥
विधाय विधिवद् विश्वान्, विश्वनाथो नियोगिनः । अदैन्यानि च सैन्यानि, राज्यं प्राज्यमपालयत्
॥ १६७॥ निःशका निर्विपत्पङ्का, निरातङ्का निरागसः । निरीतयः प्रजास्तस्मिन् , बभुर्वसुमतीपतौ ॥ १६८ ।। सस्यान्यकृष्टपच्यानि, धेनवः कामधेनवः । विसृष्टवृष्टयः काले, जलदाः फलदा द्रुमाः ॥ १६९ ।। राजन्वत्यां तदा तेन, भुवनखामिनाऽवनौ । जातः शूरोऽपि न प्रूरकराक्रान्तिकृतौ कृती ॥ १७० ।। आज्ञामाने धरित्रीशान् , कुर्वत्यस्य वशंवदान् । स स्मरो यदि सस्मार, केवलं चापचापलम् ।। १७१ ।। इत्थं त्रिवर्गसंसर्गसुभगम्भावुकाः प्रजाः । त्रिषष्टिः पूर्वलक्षाणां, जज्ञे पालयतः प्रभोः ॥ १७२ ॥
___ अन्यदा शिशिराक्रान्तं, जगदानन्दयन्नयम् । वसन्तर्तुर्जगद्भर्तुः, सेवां कर्तुमिवाययौ ॥ १७३ ॥ मधुर्विधाय वासन्ती, पुष्पाभरणभूषिताम् । चक्षुर्दोषभियाऽकार्षीदलिकज्जलमञ्जलाम् ॥ १७ ॥ सहकारं सहुङ्कारं, किल कोकिलकूजितैः । पथिकाः पथि कामस्य, भृत्यं मृत्युममन्यत ॥ १७५ ।। कन्दर्पो दर्पवानाज्ञाभङ्गवध्यान् वियोगिनः । पश्यत्यन्तर्वणं कुर्वन्नुच्चैश्चम्पकदीपकान् ॥१७६ ॥ सारो मधुरसैरन्तरुद्भिन्नमधुभाण्डवत् । मधुपानां कलकलैयाकुलो बकुलोऽभवत् ॥१७७ ।। पुष्पोल्लासैः,सहासेव, सगीतेवालिनिःस्वनैः । वधूरिव मधून्मचा, वनलक्ष्मीरलक्ष्यत '॥ १७८ ॥ हल्लीसकलयाद् वल्लीवेल्लत्पल्लवपाणिभिः । अनीनटन्नटाचार्यकलया मलयानिलः ॥ १७९॥ तदोत्कण्ठितचेतोमिः, प्रेरितो भरतादिभिः । जगाम जनितानन्दं, नन्दनं नाभिनन्दनः ।। १८० ।। पिकीनां पञ्चमोच्चारै ङ्गीसङ्गीतनिःस्वनैः । असमैः कुसुमैर्भर्तुर्वनश्रीः स्वागतं व्यधात् ॥१८१ ।। पुष्पवेश्मकृतावासे, पुष्पभूषणभूषिते । तत्र पुष्पासनासीने, पुष्पमास इव प्रभौ ॥ १८२॥
यशोभिर्वासिते विश्वे, विश्वतः स्वामिनाऽमुना ।
किमेतैरिति पुष्पाणि, चिन्वन्ति स्म विलासिनः ॥१८३ ॥ युग्मम् ॥ अस्त्रप्रपञ्चं पञ्चेषोरन्यन्नहि सहामहे । इतीव पुष्पावचय, रचयन्ति स्म सुभ्रवः ॥१८४ ॥ कोऽपि प्रियास्तनस्तम्बे, स्तम्बेरममिव स्मरम् । बबन्ध निदधत्पुष्पमालामालानसन्निभाम् ॥ १८५ ॥ प्रियोपनीतं सावज्ञ, श्वासैर्भून्मास्म भस्मसात् । इतीव कुसुमं कान्ता, नासिकान्तादपातयत् ॥ १८६ ।।
पाणिः पुष्पाणि चिन्वत्याः, कस्याश्चित् कोमलाङ्गुलिः ।
, उच्चैश्चुचुम्चे रोलम्बकुटुम्बैरम्बुजभ्रमात् कपोलेऽताडयत् काश्चिदुद्यत्पल्लवपाणिना । अशोकः पादघातस्य, कृतप्रतिकृतौ कृती ॥१८८ ।। लताभ्यः पुष्पसर्वस्वं, हृत्वा यात्यङ्गनाजने । स्वनन्तोऽनुपदीभूता, भृङ्गास्तदुपजीविनः ॥ १८९ ।। पञ्चवर्णसुमस्तोमसर्वाङ्गीणविभूषणाः । विरेजुर्जङ्गमाः कामशस्त्रशाला इव स्त्रियः सुस्थितैमिथुनैरित्थं, परितः परिवारितः । वभौ त्रिभुवनस्वामी, तदाऽनङ्ग इवाङ्गवान् ॥ १९१ ।। अथैकतः कृतोत्तालतालै-नादानुगामिभिः । मृदङ्ग-पणवा-ऽऽतोद्य-वेणु-वीणादिनिःस्वनैः ॥ १९२ ॥
१ क्रूरः कराकान्त खंता ॥ २ ममंसत खंता० पाता० ॥ ३°लमानानु खंता० ॥