________________
सङ्घपतिचरितापरनामकं
तंयुग्मजन्मघन्यायाः, कन्याया नाम चक्रतुः । सुमङ्गलेति सम्प्रीतौ, नितरां पितरावथ वत्सरें स्वामिनः पूर्णे, जनकोत्सङ्गसङ्गिनः । सौधर्मेन्द्रोऽन्वयस्थित्यै, सेक्षुयष्टिः पुरोऽभ्यगात् प्रभुर्ज्ञातिन्द्रसङ्कल्पो, जग्राहेक्षुलतां च ताम् । इक्ष्वाकुसंज्ञ कृत्वेति, वंशं भर्तुर्ययौ हरिः ॥ विभुरभ्यागतैर्देवैरेव रम्यमरम्यत । नित्यमत्यद्भुतानेकरूपनिर्माणकर्मठैः प्राप्य प्रभुरथाङ्गुष्ठपानावस्थातिगं वयः । अप्रीयत फलैर्दिव्यैस्तैरुत्तरकुरूद्भवैः
॥
॥
॥
॥
१३९ ॥
॥ १४० ॥
॥ १४१ ॥
॥
१४२ ॥
॥ १४३ ॥
॥
१४४ ॥
स्वामी क्रमात् प्रवर्द्धिष्णुः, स्पर्द्धिष्णुः कल्पपादपम् । सौभाग्यरूपभूपालभवनं यौवनं ययौ सेव्ये चन्द्रकुटुम्बेन, पद्मन्यक्कारभीरुणा । प्रभोर्नखमणिव्याजात्, पादपद्मे विराजतः भुजौ भातः प्रभोः श्राद्ध-साधुधर्मधरोद्धृतौ । भुजगेन्द्रा विबोन्निद्रनखरत्नाङ्गुलीफणौ अन्योन्यमुपमीयन्ते, करांहि - नयनादयः । प्रभोर्मुकुरबिम्बेषु, नाभि-हृद्वदनादयः कारुण्यशालितारुण्यचारुण्यङ्गे जगद्गुरुः । अपीप्यत द्युतिपयस्तृषितान् लोकहम्मृगान् बालकेलिरसोत्तालस्तालद्रुमतलेऽन्यदा । दारकः फलपातेन, कुतोऽपि मिथुनान्मृतः अथान्यमिथुनैर्बाला, परासुपितृ-वल्लभा । जातरूपसहग्जातरूपश्रीर्नाभयेऽर्पिता साऽपि शापच्युतेव श्रीर्नयनानन्द कौमुदी । नन्दनीव सुनन्दाख्या, नाभिना साऽभिनन्दिता ॥ यशीतिं पूर्वलक्षाणि, यावद् भोगफलोदयम् । प्रभुः स्वस्यावविज्ञानाज्जानन् शक्रकृतोत्सवः ।। मङ्गला-सुनन्देते, रति- प्रीतिनिमे ततः । निरस्तदर्पं- कन्दर्पचर्यः पर्यणयज्जिनः ॥ १४७ ॥ अधादपूर्णषट्पूर्वलक्षी कुक्षौ सुमङ्गला । तौ चाहु-पीठयोर्जीव, च्युतौ सर्वार्थसिद्धितः ॥ १४८ ॥ सुनन्दाऽपि कृतानन्दा, तदानीमुदरे दधौ । तौ सुबाहु महापीठौ, तत एव दिवयुतौ १४९ ॥ ईष्ट्रा चतुर्दशस्वमानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥ १५० ॥ सुतो भरत इत्यस्या, ब्राह्मीति च सुताऽभवत् । सुनन्दा बाहुबलिनं, सुन्दरीमप्यजीजनत् ॥ १५१ ॥ 'पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसू: । असूत भूतलस्यूतमङ्गलानि सुमङ्गला
१४५ ॥
१४६ ॥
॥
॥ १५२ ॥
२८
[ तृतीयः
॥ १३३ ॥
॥ १३४ ॥
१३५ ॥
१३६ ॥
१३७ ॥
१३८ ॥
तदा च स्वामिनो दानाद्भुतादिव विलज्जितैः । कल्पद्रुमैरदृश्यत्वं, तैर्जग्मे युग्मधर्मिणाम् ॥ १५३ ॥ मिथोऽथ मिथुनैः कालयोगात् कलिकदर्थितैः । एत्य विज्ञापितः स्वामी, समन्तादसमञ्जसम् ॥ १५४ ॥ ज्ञानत्रयततो वाचं, ततो वाचंयमाग्रणीः । ऊचे भो ! भूपतिः शास्ति, न्यायवर्त्मातिवर्तिनः ॥ १५५ ॥ सोऽर्म्यतामिति तैरुक्ते, पिता दातेति सोऽब्रवीत् । नाभिनाऽपि समादिष्टं, भूयस्तं भूपमभ्यैः ॥ १५६ ॥ वाचा तस्याभिषेकाय, विवेकायतचेतसः । ते जग्मुर्युग्मिनस्तूर्णं, पयसे नयसेविनः ॥ १५७ ॥ तदा चासनंकम्पेन, शक्रोऽप्यवधिबोधितः । कालं मत्वाऽभिषेकस्य, प्रभोरभ्यर्णमभ्यगात् ॥ १५८ ॥ क्लृप्तकल्याणवेद्यन्तः, सिंहासनजुषः प्रभोः । चक्रे शक्रस्ततो राज्याभिषेक तीर्थवारिभिः ॥ १५९ ॥ गङ्गावीचीवरैः प्रीतश्चीवरैस्तं शचीवरः । विभुं व्यभूषयद् विश्वभूषणं भूषणैरपि युग्मन्यप्यब्जिनी त्रैस्तोयमानीय चिक्षिपुः । भूषितस्य विभोर्योग्यं, न मूर्ध्नाति पदाब्जयोः तानि मत्वा विनीतानि, मिथुनानीति नीतिमान् । धनदेन विनीताख्यं, शक्रः पुरमचीकरत् ॥ विस्तारा-ऽऽयामसम्पूर्णनव-द्वादशयोजनाम् । अयोध्येत्यन्यनामानं स दिव्यां नगरीं व्यधात् ॥ १६३ ॥
॥ १६० ॥
॥
१६१ ॥
१६२ ॥
१क्षा गर्ने सुम खंता० पातां० ॥ २ सोऽवदत् संतां० पाता || ३ ९भ्ययुः संता० ॥ . ४ पात्रै ता० ॥ ५ °तिवित् ता पाता० ॥