________________
२७
सर्गः ]
'धर्माभ्युदयमहाकाव्यम् ।
शिलया पाण्डकवने, पाण्डुकम्बलया धृतम् । अध्यास्त वासवः स्नात्रपीठमुत्सङ्गितप्रभुः ॥ १०४ ॥ अस्मिन् महे महाघोषाघण्टानिर्घोषबोधिताः । इन्द्रास्त्रिषष्टिराजग्मुरपरे सपरिच्छदाः ॥ १०५ ॥ अच्युतेन्द्रोऽथ सौवर्णान्, रौप्यान् मणिमयानपि । हेमरूप्य - हेमरत्न - रत्नरूप्यमयानपि ॥ १०६ ॥ हेमरूप्यमणिमयान्, भौमाँश्च कलशान् सुरैः । अष्टोत्तरसहस्रं स तान् प्रत्येकमचीकरत् ॥ कुम्भवत् पात्रिका-रत्नकरण्ड- स्थाल-दर्पणान् । भृङ्गार - पुष्पचङ्गेरी- सुप्रतिष्ठानकारयत् ॥ क्षीरोद - पुष्करोदाभ्यामम्भः साम्भोरुहं तदा । समृत्स्नं चान्यतीर्थेभ्यो, भरतैरावतादिषु ॥ आनिन्यिरे पद्मइदात्, किञ्चित् क्षुद्रहिमाद्रितः । तुवरौषध-सिद्धार्थ - कुसुमानि च ते सुराः नन्दनात् पाण्डकाद् भद्रशालात् सौमनसाच्च ते । गन्धद्रव्याण्युपानीय, पानीयान्तर्निचिक्षिपुः कुम्भानम्भोभिरापूर्य, स्फूर्जत्तूर्यरवोर्जितम् ।
॥
॥ १११ ॥
क्षिस्वा पुष्पाञ्जलीन् शकाः, स्नात्रमासूत्रयन् विभोः
॥
रूक्षाङ्गं गन्धकाषाय्या, व्यालिम्पन्नथ ते विभुम् । पात्रिकान्यस्तगोशीर्ष श्रीखण्डद्रवकर्दमैः ॥ अभ्यर्चितोऽङ्के दध्रेऽथ, प्रभुरीशानवज्रिणा । सौधर्माधिपवद् भक्त्या, मूर्त्तीः पञ्च वितन्वता शृङ्गोच्छलज्जलान् दिक्षु, चतुरश्चतुरो वृषान् । विधाय विदधे स्नात्रं, सौधर्मेन्द्रोऽप्यथ प्रभोः पूजा-विलेपना-कल्पैरनल्पामोदमेदुरः । विभुं विभूषयामास, दासवद् वासवः स्वयम् ततश्च पृथिवीपीठविलुठन्मौलिमण्डलः । नमस्कृत्य जगन्नाथं, हृष्टस्तुष्टाव वासवः
॥
॥
॥
१०७ ॥
१०८ ॥
१०९ ॥
११० ॥
'॥
११२ ॥
११३ ॥
११४ ॥
११५ ॥
११६ ॥
११७ ॥
॥ ११८ ॥
॥ ११९ ॥
नमस्ते विश्वनाथाय, विश्वानन्दप्रदायिने । विश्वोत्तरचरित्राय, विश्वताताय तायिने श्रीयुगादिजगन्नाथ !, कृतावतरणे त्वयि । अद्याभूद् भरतक्षेत्रं, पवित्रं त्रिदिवादपि गते काले महामोहमेघव्यूहतमोमये । दिष्ट्या दृष्टा भवन्मूर्तिनेत्रकैरवकौमुदी अस्मिन् जन्मनि मन्येऽहं धन्यमद्यतनं दिनम् । यत्र त्वत्पदपद्माभ्यां शिरः सुरभितं मम ॥ श्रीजिनेश ! दिनेशस्त्वमपूर्वप्रथितोदयः । उर्व्या सर्वज्ञ ! कुर्वीथाः, शाश्वतं सुदिनोत्सवम्
॥
॥
॥
ईशानेशादथो नाथं, गृहीत्वा पञ्चरूपभाक् । यथाऽऽगतं सुधर्मेन्द्रः, सूतिकासदनं ययौ विनिवृत्त्य प्रतिच्छन्द, विभुं तल्पे निवेश्य च । वाससी कुण्डले चात्र, मुमुचे नमुचेरिपुः ॥ अस्तन्यपाननिष्ठस्य, निजाङ्गुष्ठशिखालिहः । सुधा सुधाभुजां भर्त्रा न्यधायि स्वामिनोऽङ्गुले ॥ अथ धान्न प्रभोः स्वर्ण - रत्न-वस्त्रा - ऽऽसनादिकम् । सारं सांसारिकं वस्तु, सर्वं श्रीदो न्यधापयत् जिनस्य जिनमातुर्वा, योऽवद्यं चिन्तयिष्यति । तन्मूर्द्धा शतधा भावीत्युच्चैर्गिरमुदीर्य सः ॥ १२७ ॥ धात्रीकर्मप्रपञ्चाय, तत्पञ्चाप्सरसो हरिः । आदिदेश सदेशस्थाः, शश्वद् विश्वत्रयीगुरोः ॥ १२८ ॥
॥
१२६ ॥
१२० ॥
१२१ ॥
१२२ ॥
१२३ ॥
१२४ ॥
१२५ ॥
-
॥ युग्मम् ॥
सौधर्मेन्द्रस्तदाऽऽनन्दी, नदीश्वरवरं गतः । स्पष्टमष्ठाह्निकामत्र, चक्रे शक्रास्तथाऽपरे ॥ १२९ ॥ परेऽपि सर्वे सर्वेषु, शाश्वतार्हतसद्मसु । यथाविधि महं कृत्वा, यथागतमगुः सुराः ॥ १३० ॥ वृषभश्चिह्नमूरुस्थं, स्वप्ने प्राग् वृषभोऽप्यभूत् । प्रभोर्ऋषभ इत्याख्यां चक्रतुः पितरौ ततः ॥ १३१ ॥ चाल्यस्थः पाल्यमानोऽथ, सुरस्त्रीभिः स पञ्चभिः । दधौ वृद्धिं समितिभिः, साक्षात् संयमवत् प्रभुः १-२ - ३ रौप्य संता० ॥ ४° दुरैः संता० ॥ ५ टाम वतासं० ॥
॥
१३२ ॥