________________
सर्गः1,
धर्माभ्युदयमहाकाव्यम् । प्रभुणा पाणिपात्रेण, साक्षादिक्षुरसो धृतः । आरूढः शिखया व्योम, जेतुमिन्दुकरानिव ॥ २८ ॥ तदा ददत् कुमारोऽयं, मुदा रोमाश्चमेचकः। वभौ मुक्तिश्रिया साक्षात् , कटाक्षैरिव वीक्षितः ॥ २७९ ।। पुण्यैरिव कुमारस्य, दिवमिक्षुरसैर्गतैः । उत्सवाय समाहूताः, पुरुहूतादयः सुराः ॥२८० ।। हतदुन्दुभयो रल-पुष्प-गन्धोदकादिम् । विधाय भूतले देवाश्चैलोत्क्षेपमथ व्यधुः ॥२८१ ॥ प्रभोः शुक्लतृतीयायां, वैशाखेऽजनि पारणम् । तदक्षयतृतीयाख्यं, पर्व सर्वत्र विश्रुतम् ॥ २८२ ।। किमेतदिति सोत्कर्ष, पृच्छते स्वच्छचेतसे । राज्ञे प्राज्ञेन विज्ञप्तं, प्राग्वृत्तं तेन सूनुना ॥२८३ ॥
कल्प्या-ऽकल्प्यविचारं च, जातजातिस्मृतिः कृती। अपशोकाय लोकाय, श्रेयांसः श्रेयसेऽदिशत्
॥ २८४ ॥ नाथपारणकेनाथ, कुमारजनितेन ते । स्वप्नाः स्पष्टार्थतां प्रापुस्त्रयेऽपि पुरुषत्रये अथ प्रभौ गते पापवारणे कृतपारणे । चकार पारणस्थाने, रत्नपीठं नृपाङ्गजः ॥ २८६॥
एतदादिकृतः पीठमिति लोकाय सोऽवदत् ।
जनोऽपि जिनमिक्षायाः, स्थाने तत् तादृशं व्यधात् ॥ २८७ ॥ तदादि त्यक्ततत्त्वेन, तदाऽऽदित्यस्य मण्डलम् । जनैनानानताऽद्यापि, नित्यं कृत्वाऽपि पूज्यते ॥ २८८ ॥ नाथोऽन्यदा विहारेण, दक्षस्तक्षशिला पुरीम् । सायं वाहुबले प्राप, बहलीदेशमण्डनम् ॥ २८९ ।। ज्ञात्वा तमागतं बाहुबलिश्चक्रे पुरोत्सवम् । पादारविन्दं वन्दिप्ये, सुप्रातेऽहं प्रभोरिति ॥ २९० ॥ अथा नातिरम्येण, भूषणान्यपि भूषयन् । समं समन्तात् सामन्तैः, प्रातरानन्दमेदुरः ॥ २९१ ॥ यावत् पुरन्दरप्रायः, पश्यन् शृङ्गारिता पुरीम् । भगवान् विषयत्रासी, यत्रासीत् तत्र यातवान् ॥ २९२ ।।
॥ युग्मस् ॥ विजहारान्यतस्तावत्, प्रभञ्जन इव प्रभुः । तदुःखितं नृपं प्राह, सचिवः शुचिवागथ ॥२९३ ॥ हृद्ये करोति हृद्येव, देवस्तव सदा पदम् । मा विषादनिषादस्य, सुखदस्योर्वशो भव ॥२९४ ॥ पदानि पद्म-कुलिशा-ऽङ्कुशाकानि जगद्गुरोः । एतानि तानि भूखण्डमण्डनानि नमस्कुरु ॥ २९५ ॥ सचिवस्य वचः कृत्वा, तथेति पृथिवीपतिः । धर्मचक्रमिह त्रुट्यत्कर्मचक्रः प्रचक्रमे ॥२९६ ॥ नमोरलसपत्नोरुरलराजिविराजितम् । तद् विधाय व्यधादेष, स्पष्टामष्टाहिकामिह ॥ २९७ ॥ अष्टयोजनविस्तीर्णे, चक्रेऽस्मिन् योजनोन्नते । सहस्रारे सहस्राणि, यामिकानां नृपोऽमुचत् ।। २९८ ॥ ततश्च भगवान् भास्वाँस्तमःशमनकर्मठः । विहरन् म्लेच्छदेशेधू, पङ्कशेषमशेषयत् ॥२९९ ॥ अथ वर्षसहस्रान्ते, घसान्त इव चन्द्रमाः । पुरं पुरिमतालाख्यं, प्राचीमुखमिवागमत् ॥ ३०० ॥
अयोध्याया महापुर्यास्तस्मिन् शाखापुरे स्थितः । ___ फाल्गुने मासि कृष्णायां, प्रभुरेकादशीतिथौ
॥ ३०१॥ तदानीमुत्तराषाढावस्थिते सितदीधितौ । अवाप केवलज्ञानं, शुक्लध्यानधनो जिनः ॥ ३०२ ॥ ततश्वासनकम्पेन, समीयुस्तत्र वासवाः । अथाकारि चमत्कारि, त्रिदशैर्देशनासदः ॥३०३ ॥ • १ रसं दद" खता. ॥ २ 'नेन जा पातसं० विना ॥ ३ पुरम् पाता॥ ४ पु, पापपङ्कमशोषयत् खता० । षु, कर्मपङ्कमशोषयत् पाता० ॥
घ. ५