________________
[८८] 'एयम्मि 'त्ति । एतस्मिन् ' निरालम्बनध्याने लब्ध मोहसागरस्य-दुरन्तरागादिभावसंतानसमुद्रस्य तरणं भवति । ततश्च ' श्रेणिः ' क्षपकश्रेणिनि ढा भवति, सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्रज्ञातः समाधिस्तीर्थान्तरीयैर्गीयते, एतदपि सम्यग्-यथावत् प्रकर्षेण-सवितर्कनिश्चयात्मकत्वेनात्मपर्यायाणामर्थानां च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नानुपपन्नम् । ततश्च 'केवलमेव ' केवलज्ञानमेव भवति । अयं चासम्प्रेज्ञातः समाधिरिति परैगीयते, तत्रापि अर्थतो नानुपपत्तिः, केवलज्ञानेऽशेषवृत्त्यादिनिरोधालब्धात्मस्वभावस्य मानसविज्ञानवैकन्यादसम्प्रज्ञातत्वसिद्धेः । अयं चासंप्रज्ञातः समाधिधिा-सयोगिकेवलिभावी अयोगिकेवलिभावी च, आयो मनोवृत्तीनां विकल्पज्ञानरूपाणामत्यन्तोच्छेदात्सम्पद्यते । अन्त्यश्च परिस्पन्दरूपाणार, अयं च केवलज्ञानस्य फलभूतः। एतदेवाह-'ततच' केवलज्ञानलाभादनन्तरं च 'अयोगयोगः' वृत्तिवीजदाहायो
१ “ वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ।" (पावं० योग० १-१७)। २ "विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः " ( पातं० १-१८) " यदभ्यासपूर्व चित्तं निरानम्बनमभावप्राप्तमिव भवतीत्येष निर्वीजः समाधिरसम्प्रज्ञातः॥" इति १-१८ सूत्रभाष्ये व्यासर्षिः।