________________
[८६] गाख्यः समाधिर्भवति, अयं च " धर्ममेघः " इति पातञ्जलैर्गीयते, " अमृतात्मा" इत्यन्यैः, "भवशत्रुः" इत्यपरैः, "शिवोदयः" इत्यन्यैः, " सत्त्वानन्दः" इत्येकैः, " परश्च" इत्यपरैः । क्रमेण ' उपदर्शितपारम्पर्येण ततोऽयोगयोगाद ' परमं ' सर्वोत्कृष्टफलं निर्वाणं भवति ॥ २० ॥
॥ इति महोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकपण्डितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीजसविजयगणिसमर्थितायां विंशिका प्रकरणव्याख्यायां योगविंशिकाविवरणं सम्पूर्णम् ॥
१॥ तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुपान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति" इति पातं० यो० १-२ भारे व्यासपिः॥