________________
[८७] गताभिधानं स्यादिति. मैवम् , यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादक्तिनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनमापकत्वादेकध्येयाकारपरिणतिशक्तियोगाच निरालम्बनमेव । अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव । संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिक रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपनवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात तस्यैव च मोहनाशकत्वात् । आह च-" जो जाणइ अरिहंते, दव्यत्तगुणत्तपजयत्तेहिं । सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं ॥१॥” इति । तस्मादूपिद्रव्यविषयं ध्यानं सालम्बनं अरूपिविषयं च निरालम्बनमिति स्थितम् ॥१६॥ अथ निरालम्बनध्यानस्यैव फलपरम्परामाहएयसि सोहसागरतरणं सेढी य केवलं चेव । तत्तो अजोगजोगो, कमेण परमं च निव्वाणं ॥२०॥
१ “ यो जानात्यई तो द्रव्यत्वगुणत्वपर्यायत्वैः । स जानात्यात्मानं मोहः खलु तस्य चाति लयम् ॥"