________________
[ ८६ ]
अलब्धप्रतिष्ठः सर्वोत्तमस्य योगस्य - प्रयोगाख्यस्य अनुज:पृष्ठभावी ॥ ' तद्दर्शनं ' परतत्त्वदर्शनं ' एतच्च' परतवदर्शनं ' केवलं ' सम्पूर्ण ' तत् ' प्रसिद्धं यत् तत् केवलज्ञानं 'परं ' प्रकृष्टं ज्योतिः स्यात् ।। अत्र कस्यचिदाशङ्का - इपुपातज्ञातात्परतच्चदर्शने सति केवलज्ञानोत्तरमनालम्बनयोगप्रवृत्तिर्मा भूत्, सालम्बनयोगप्रवृत्तिस्तु विशिष्टतरा काचित्स्यादेव, केवलज्ञानस्य लब्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात्, मैचम्, केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकाङ्क्षाया विषयतया ध्यानानालम्बनत्वात्क्षपकश्रेणिकालसम्भविविशिष्टतरयोगप्रयत्ना भावादावर्जीकरणोत्तरयोगनिरोधप्रयत्नाभावाच्चार्वाक्तनकेवलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् । श्राह च महाभाष्यकारः - I “ सुदढप्पयत्तत्वावारणं णिरोहो व विजमाणाणं | झाणं करणाण मयं, ण उ चित्त गिरोहमित्तागं ॥ १ ॥ " (विशेपावश्यक - गाथा ३०७१ ) इति । स्यादेतद्, यदि क्षपकश्रेणिद्वितीया पूर्वकरणभावी सामर्थ्ययोग एवानालम्बनयोगो ग्रन्थकृताऽभिहितस्तदा तदप्राप्तिमतामप्रमत्तगुणस्थानानामुपरतसकल विकल्पकल्लोलमालानां चिन्मात्रप्रतिबन्धोपलब्धरत्नत्रयसाम्राज्यानां जिनकन्पिकादीनामपि निरालम्बनध्यानमसं
१ " सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् | ध्यानं करणानां मतं न तु चित्तनिरोधमात्रम् ||
"
-