________________
[८५] नयोगः, प्रोक्तस्तददर्शनं यावत् ॥ १॥" (पो० १५-८) 'तत्र' परतत्त्वे द्रष्टुमिच्छा दिक्षा ' इति' एवंस्वरूपा प्रसङ्गशक्त्या-निरभिष्वङ्गाविच्छिन्नप्रवृत्त्या आढया-पूर्णा 'सा' परमात्मदर्शनेच्छा अनालम्बनयोगः, परतत्त्वस्यादर्शनं-अनुपलम्भं यावत् , परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् । अलब्धपरतत्त्वस्तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोगः, स च क्षपकेण धनुर्धरण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो वाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोगव्यापारः, यदा तु प्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमानादेव तक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलज्ञानप्रकाश एव भवति, न त्वनालम्बनयोगो (ग) व्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः । आह च-" तत्राप्रतिष्ठितोऽयं, पतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु, तेनानालम्रनो गीतः ॥१॥ द्रागस्मात्तदर्शनमिषुपातज्ञातमात्रतो झेयम् । एतच केवलं तत् , ज्ञानं यत्तत्परं ज्योतिः ॥२॥" (षो० १५-६, १०) 'तत्र' परतत्त्वे 'अप्रतिष्ठितः।
१" प्रोक्तस्तद्दर्शनं यावत् " इति पाठानुसारेण यशोभद्रसूरिणा व्याख्याकृता। तथाहि-प्रोक्तस्तत्त्ववेदिभिः तस्यपरतत्त्वस्य दर्शनमुपलम्भस्तद्यावत्" इति ।