________________
[८१] योगभेदेषु 'यत्नसंगतानां तु' प्रयत्नवतामेव 'एतत् ' चैत्यवन्दनाउनुष्ठानं ' हितं ' मोक्षसाधकं विज्ञेयम् , चैत्यवन्दनगोचरस्थानादियोगस्य मोक्षहेतुत्वे तस्यापि तत्प्रयोजकत्वादिति भावः । 'तथा' इति प्रकारान्तरसमुच्चये । सदनुष्ठानत्वेन,योगपरिणामकृतपुण्यानुवन्धिपुण्यनिक्षेपाद्विशुद्धचितसंस्काररूपया प्रशान्तवाहितया सहितस्य चैत्यवन्दनादेः स्वातन्त्र्येणैव मोक्षहेतुत्वादिति भावः । प्रकारभेदोऽयं नयमेदकृत इति न कश्चिद्दोषः ॥ १७ ॥ सदनुष्ठानभेदानेव प्ररूपयंश्चरमतभेदे चरमयोगभेदमन्तर्भावयन्नाहएयं च पीइभत्तागमाणुगं तह असंगयाजुत्तं । नेयं चउविहं खल्ल, एसो चरमो हवइ जोगो॥१८॥ ___ 'एयं च ' त्ति । एतच्च सदनुष्ठानं प्रीतिभक्त्यागमाननुगच्छति तत् प्रीतिभत्त्यागमानुगं-प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानं चेति त्रिभेदं तथाऽसंगतया युक्तं असंगानुष्ठानमित्येवं चतुर्विध ज्ञेयम् । एतेषां भेदानामिदं स्वरूपम्-यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते शेषत्यागेन च यत्कियते तत्प्रीत्यनुष्ठानम् , अाह च" यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः। शेषत्यागेन करोति यच तत्प्रीत्यनुष्ठानम् ॥ १॥" (पो० १०-३ ) एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषवुझ्या