________________
[८२] विशुद्धतरव्यापारं भक्त्यनुष्ठानम् , आह च-गौरवविशेषयोगाइद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् ।। २॥" (पो० १०-४) प्रीतित्वभक्तिले संतोष्यपूज्यकृत्यकर्तव्यताज्ञानजनितहर्पगतौ जातिविशेपो, आह च-" अत्यन्तवल्लभा खलु, पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥३॥" (पो० १०-५ ) ' तुल्यमपि कृत्यं ' भोजनाच्छादनादि 'ज्ञातं ' उदाहरणम् । शास्त्रार्थप्रतिसंधानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिर्वचनानुष्ठानम् , आह च-" वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं, चारित्रवतो नियोगेन ॥४॥" (पो० १०-६) व्यवहारकाले वचनप्रतिसंधाननिरपेक्षं दृढतरसंस्काराचन्दनगन्धन्यायेनात्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसङ्गानुष्ठानम् , आह च-" यत्त्वभ्यासातिशयात् , सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं, भवति त्वेतत्तदावेधात्
॥५॥" (पो० १०-७) 'तदावेधात् ' वचनसंस्कारात् , __ यथाऽऽद्यं चक्रभ्रमणं दण्डव्यापारादुत्तरं च तजनितकेवल
संस्कारादेव, तथा भिक्षाटनादिविपयं वचनानुष्ठानं वचनव्यापाराद् असङ्गानुष्ठानं च केवलतजनितसंस्कारादिति विशेषः,
आह च-" चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ६ ॥” (पो०