________________
[ ७७ ]
शके - " यैः शृण्वन् सिद्धान्तं, विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥ १ ॥ नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि । कुर्वनेतद्गुरुरपि. तदधिकदोषोऽयगन्तव्यः ॥ २ ॥ " ( पो० १०-१४-६५ ) मण्डल्युपवेशनं-सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् । 'तदधिकदोषः ' अयोग्य श्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारचिनर्महादोपत्वात् । तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्ररूपणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्त्यैव न तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् || १५ || ननु किमेतावगूढार्थगवेषणया ?, यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यं "महाजनो येन गतः स पन्धाः " इति वचनात्, जीतव्यवहारस्यैवदानी चाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थ कालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह -
मुत्तूण लोगसन्नं, उड्ढण य साहुसमय सन्भावं । सम्म पट्टियव्वं, बुदेणमइनि उणबुद्धी ॥ १६ ॥
मुत्तू 'ति । मुक्त्वा [' लोकसंज्ञां '] " लोक एव प्रमाणं" इत्येवंरूपां शास्त्रनिरपेक्षां मतिं 'उड्दा य' त्ति वोडा च' साधुसमय सद्भावं ' समीचीन सिद्धान्त [ रहस्यं ] 'सम्यग' विधिनीत्या प्रवर्त्तितव्यं चैत्यवन्दनादौ ' बुधेन' पण्डितेन प्रतिनिपुणबुद्ध्या' अतिशयितसूक्ष्मभावानुधाविन्या मत्या ।
{
१ शृण्वन्नपि सिद्धान्तं ' इत्यपि ।