________________
[७६ ] मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेच्य गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूपणमेव, तथा च श्रुतकेवलिनो वचनम्-"जह सरणमुवगयाणं, जीवाण सिरो निम्तिए जो उ। एवं आयरिश्रो वि हु, उस्सुत्तं पण्णवेतो य ॥१॥" न केवलमविधिप्ररूपणे दोषः, किन्तु विधिप्रेरूपणाभोगेऽविधिनिषेधासम्भवात् तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद्दोष एव, तस्मात् “ स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोपो वयं हि क्रियामेवोपदिशामो न त्वविधिम् " एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण, किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्गे प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः । एतदपि भावितव्यमिह तीर्थोच्छेदभीरूभिः-विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग् बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनातीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्स धर्मश्रावणेऽपि महादोप एव, तथा चोक्तं ग्रन्थकृतैव पोड
१ "यथा शरणमुपगतानां जीवाना शिरो निकृन्तति यस्तु । एक्माचार्योऽपिखलूत्सूत्रं प्रज्ञापयंश्च ।।" २ 'अविधि'-इति स्यात् ।