________________
[ ७५ ] एष तीर्थोच्छेदः । नहि तीर्थनाम्ना जनसमुदाय एव तीर्थम्, श्राज्ञारहितस्य तस्यास्थिसङ्घातरूपत्वप्रतिपादनात्, किन्तु ग्रूत्रविहितयथोचितक्रियाविशिष्टसाधुसाध्वीश्रावकश्राविकानगुदायः, तथा चाविधिकरणे सूत्रक्रियाविनाशात्परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेन विधिस्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः || १४ || सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाह -
सो एल वंकओ चिय, न य सयमयमा रियाणमविसेलो। एयं पि भावियद, इह तित्थुच्छेय भीरूहिं ॥ १५ ॥
' सो एस 'ति । ' स एषः ' सूत्रक्रियाविनाशः ' चक्र एव ' तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव । ननु शुद्ध क्रियाया एव पक्षपाते क्रियमाणे शुद्धायास्तस्या श्रलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्त्याऽक्रियापरिणामस्य स्वत उपनिपातात्तीर्थोच्छेदः स्यादेव यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं तीर्थ न व्यवच्छिद्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोपः, अक्रियाकर्तुरिवाविधिक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात्, केवलं क्रियाप्रवर्तनेन गुरोस्तीर्थव्यवहाररक्षशाद्गुण एवेत्याशङ्कायामाह - न च स्वयंमृतमारितयोरविशेषः, किन्तु विशेष एव, स्वयंमृते स्वदुष्टाशयस्यानिमित्तत्वात्