________________
[ ७४ ] दण्डन्योयनाद्यन्तग्रहणार्थम्, तेन परमामृतानुष्ठानपराः सर्वविरतास्तच्चत एव तद्धेत्वनुष्ठानपराः । अपुनर्वन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते, कुग्रहविरहसम्पादनेनापुनर्वन्धकानामपि चैत्यवन्दनानुष्ठानस्य फलसम्पादकतायाः पञ्चाशकादिप्रसिद्धत्वादित्यवधेयम् । ये त्वपुनर्वन्धकादिभावमप्यस्पृशन्तो विधिबहुमानादिरहिता गतानुगतिकतयैव चैत्यवन्दनाद्यनुष्ठानं कुर्वन्ति ते सर्वथाऽयोग्या एवेति व्यवस्थितम् ॥ १३ ॥ नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने तीर्थप्रवृत्तिरव्यवच्छिन्ना स्यात्, विधेरेवान्वेपणे तु द्वित्राणामेव विधिपरायां लाभात् क्रमेण तीर्थोच्छेदः स्यादिति तदनुच्छेदायाविध्यनुष्ठानमप्यादरणीयमित्याशङ्कायामाह - तित्थस्सुच्छेयाइ वि, नालंबण जं ससमएमेव । सुत्तकिरियाइ नासो, एसो असमंजस विहाणा ॥ १४॥
1
' तित्थस्स ' इत्यादि । ' अत्र ' विध्यनुष्ठाने तीर्थो - च्छेदाद्यपि नालम्बनी (नम्), तीर्थानुच्छेदायाविध्यनुष्ठानमपि कर्तव्यमिति नालम्वनीयम् । ' यद्' यस्मात् ' एवमेव । विध्यनुष्ठाने क्रियमाण एव ' असमञ्जसविधानात् ' विहितान्यथाकरणादशुद्ध पारम्पर्यप्रवृत्त्या सूत्रक्रियाया विनाशः, स
१ श्री हरिभद्रसूरिकृतः । २" तित्थस्सुच्छेयाइ वि, एत्थं नालंवरणं जमेमेव " इति भवेत् ।