________________
[७३ ] मुनिपुङ्गवाः ॥ ६॥" ( १६० श्लो०) जिनोदितमित्येव 'भावसारं ' श्रद्धाप्रधानं 'अदः ' अनुष्ठानं ' संवेगगर्भ' मोक्षाभिलापसहितं ' अत्यन्तं ' अतीव अमरणहेतुत्वादमृतसंज्ञमाहुः ' मुनिपुङ्गवाः ' गौतमादिमहामुनयः ॥ एतेषु त्रयं योगाभासत्वादहितम्, द्वयं तु सद्योगत्वाद्धितमिति तत्त्वम् । यत एवं स्थानादियत्नाभाववतोऽनुष्ठाने महादोषः 'तत्' तस्मात् 'अनुरूपाणामेव ' योग्यानामेव 'एतद्विन्यासः' चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यः ॥१२॥ क एतद्विन्यासानुरूपा इत्याकाङ्क्षायामाहजे देसविरइजुत्ता, जम्हा इह वोसिरामि कायं ति। सुब्बइ विरईए इमं, ता सम्मं चिंतिथव्व मिणं ॥१३॥ ___'जे' इत्यादि । ये 'देशविरतियुक्ताः । पञ्चमगुणस्थानपरिणतिमन्तः ते इह अनुरूपा इति शेषः । कुतः ? इत्याह—यस्मात् 'इह' चैत्यवन्दनसूत्रे "व्युत्सृजामि कायम्" इति श्रूयते, इदं च विरतो सत्यां संभवति, तदभावे कायव्युत्सर्गासम्भवात् , तस्य गुप्तिरूपविरतिभेदत्वात् , ततः सम्यक् चिन्तितव्यमेतत् यदुत " कायं व्युत्सृजामि" इति प्रतिझान्यथानुपपत्त्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनानुष्ठानेऽधिकारिणः, तेषामेवागमपरतन्त्रतया विधियत्नसम्भवेनामृतानुष्ठानसिद्धेरिति । एतच्च मध्यमाधिकारिग्रहणं तुला