________________
19
[ ७२ ] परिणामविनाशनात्, तथा महतोऽनुष्ठानस्य 'अल्पार्थनात् ' तुच्छलन्ध्यादिप्रार्थनेन लघुत्वस्यापादनादिदं विषं ज्ञेयम् ।। “ दिव्यभोगाभिलापेण, गरमाहुर्मनीषिणः । एतद्विहितनी - त्यैव, कालान्तरनिपातनात् ||३|| " ( १५७ श्लो. ) एतद् अनुष्ठानं ऐहिकभोग निस्पृहस्य स्वर्ग भोगस्पृहया गरमाहु: 'विहितनीत्यैव ' विषोक्तनीत्यैव केवलं कालान्तरे - भवान्तररूपे निपातनात् - अनर्थसम्पादनात् । विपं सद्य एव विनाशहेतुः, गरश्च कालान्तरेणेत्येवमुपन्यासः ॥ “ अनाभोगवत चैतदननुष्ठानमुच्यते। सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम् ॥४॥ ( १५८ श्लो ) ' अनाभोगवतः ' कुत्रापि फलादावप्रणिहितमनसः ' एतद् ' अनुष्ठानं 'अननुष्ठानं ' अनुष्ठानमेव न भवतीत्यर्थः । सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन्नं मनोऽस्य, ' इतिः पादसमाप्तौ । यत एवं ततो यथोदितं तथैव ॥ " एतद्रागादिदं हेतु:, श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ||४|| " ( १५६ श्लो ) ' एवद्रागात् ' सदनुष्ठानबहुमानात् ' इदं ' आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं ' सदनुष्ठानभावस्य ' तात्त्विकदेवपूजाद्याचारपरिणामस्य मुक्त्यद्वेपे मनाग् मुक्त्यनुसारेण वा शुभभावलेशयोगात् ' श्रेष्ठः ' अवन्ध्यो हेतुरिति योगविदो विदुः ' जानते || " जिनोदितमिति त्वादुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं
*
(