________________
[१] ध्यानैरात्मानं व्युत्सृजामि" (ठाणेणं मोणेणं झाणेणं अप्पासं बोसिरामि'')इति प्रतिज्ञया विहितस्य चैत्यवन्दनकायोत्सर्गादे स्थानादिभङ्गे मृषावादस्य स्फुटत्वात्, स्वयं विधिविपर्ययनवृत्तौ परेपामेतदनुष्ठाने मिथ्यात्वबुद्धिजननद्वारा तस्य लौकिकमृपावादादतिगुरुत्वाञ्च, तथा च विपरीतफलं तेषामेतदनुष्ठानं सम्पन्नम् । येऽपि स्थानादिशुद्धमप्यहिककीादीच्छयाऽऽमुष्मिकस्वर्लोकादिविभूतीच्छया वैतदनुष्ठानं कुर्वन्ति तेषामपि मोक्षार्थकप्रतिज्ञया विहितमेतत्तद्विपरीतार्थतया क्रियमाणं विष. गरानुष्ठानान्तर्भूतत्वेन महामृषावादानुवन्धित्वाद्विपरीतफलमेवेति । विपाधनुष्ठानस्वरूपं चेत्थमुपदर्शितं पतञ्जल्याद्युक्तभेदान् स्वतन्त्रेण संवादयता ग्रन्थकृतैव योगविन्दौ-" विषं गरोऽननुष्ठानं. तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः ॥ १॥" (१५५ श्लो) 'विपं ' स्थावरजङ्गमभेदभिन्नम् , ततो विषमिव विषम्, एवं गर इब गरः, परं गरः कुद्रव्यसंयोगजो विषविशेषः, 'अननुष्ठानं ' अनुष्ठानाभासं, 'तद्धेतुः अनुष्ठानहेतुः, अमृतमिवामृतं अमरणहेतुत्वात्, अपेक्षा-इहपरलोकस्पृहा, आदिशब्दादनाभोगादेश्च यद् विधान-विशेपस्तस्मात् ॥" विषं लब्ध्याद्यपेक्षातः, इदं सच्चित्तमारणात् । महतोऽल्पार्थनाज्ञेयं, लघुत्वापादनात्तथा । २॥" (१५६ श्लो) लब्ध्यादेः-लब्धिकीर्त्यादेः अपेक्षातः-स्पृहातः 'इदं ' अनुष्ठानं विषं 'सचित्तमारणात्' परिशुद्धान्तःकरण