________________
[ ७० ] अर्थालम्वनयोगाभाववतामेत चैत्यवन्दनसूत्रपदपरिज्ञानं 'स्थानादिषु यत्नवतां ' गुरूपदेशानुसारेण विशुद्धस्थानवर्णोद्यअपरायणानामर्थालम्बनयोगयोश्च तीव्रस्पृहावतां ' परं ' केवलं श्रेयः, अर्थालम्वनयोगाभावे वाचनायां प्रच्छनायां परावर्त - नायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंचलितत्वेन " अनुपयोगो द्रव्यम् " इतिकृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपि स्थानोर्ण योगयत्नातिशयादर्थालम्बनस्पृहयालुतया च तद्धेत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा परम्परया स्वफलसाधकत्वादिति भावः ।। ११ ।। स्थानादियत्नाभावे च तचैत्यवन्दनानुष्ठानसप्राधान्यरूपद्रव्यतामास्कन्दन्निष्फलं विपरीतफलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्प्रदानयोग्या इत्युपदिशन्नाह—
इहरा उ कायवासियपायं हवा महामुसावाओ । ताणुरूवाणं चिय, कायव्वो एयविन्नासो ॥१२॥
इहरा उत्ति । ' इतरथा तु ' अथलम्बनयोगाभाव'स्थानादियत्नाभावे तु तत् चैत्यवन्दनानुष्ठानं 'कायवातना' सम्मूर्च्छनजप्रवृत्तितुल्यकायचेष्टितप्रायं मानसोउपलक्षणाद्वाग्वासितप्रायमपि द्रष्टव्यं, तथा
18
ति भावः । ' अथवा ' इति
दोपान्तरे, तचैत्यवन्दनानुष्ठानं महामृपावादः, " स्थानमौन
'