________________
[७८] साधुसमयसद्भावश्चायम्-" लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत्।तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन ॥ १॥ ( ज्ञानसारे २३-४) स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि । सुश्रद्धास्तेष्वपि स्तोकाः, स्तोकास्तेध्वपि सत्क्रियाः ॥२॥ श्रेयोपर्थिनो हि भूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मशोधकाः ॥ ३ ॥ (ज्ञानसारे २३-५ ) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः । किमज्ञसाथैः ? शतमप्यन्धानां नैव पश्यति ॥ ४॥ यत्संविग्नजनाचीण, श्रुतवाक्यैवाधितम् । तजीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् ॥५॥ यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः । न जीतं व्यवहा रस्तदन्धसंततिसम्भवम् ।। ६॥ आकल्पव्यवहारार्थ, श्रुतं न व्यवहारकम् । इतिवक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् ।। ७ ।। तस्साच्छुतानुसारेण, विध्येकरसिकैर्जनैः । संविग्नजीतमालम्ब्यमित्याज्ञा पारमेश्वरी ॥ ८॥" ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा “ अविहिकया वरमकयं, असूयवयणं भणंति सव्वन्नू । पायच्छित्तं जम्हा, अकए गुरुयं कए लहुअं ॥१॥" इत्यादि वचनानां का गतिः ? इति चेत् , नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्र
१ " अविधिकृताद्वरमकृतं असूत्रवचनं भणन्ति सर्वनाः । प्रायश्चित्तं यस्मादकृते गुरु: कृते लघुकम् ।।"