________________
[ ६३ ]
--
कस्यान्तर्भावः इति चेद्, उच्यते — अध्यात्मस्य चित्रभेदस्य देवसेवाजपतन्वचिन्तनादिरूपस्य यथाक्रमं स्थाने ऊर्णेऽर्थे च । भावनाया अपि भाव्यसमानविपयत्वात्तत्रैव । ध्यानस्याल - म्वने | समतावृत्तिसंक्षययोश्च तदन्ययोग इति भावनीयम् । ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः संभवतीति सिद्धम् । ननु यदि देशतः सर्वतश्च चारित्रिण एव स्थानादिर्योगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यचहारेण श्राद्धधर्मादौ प्रवर्तमानस्य स्थानादिक्रियायाः सर्वथा नैप्फल्यं स्यादित्याशङ्कयाह - ' इतरस्य' देशसर्वचारित्रिव्यतिरिक्त [ स्य ] स्थानादिकं ' इत एव ' देशसर्वचारित्रं विना योगसंभवाभावादेव ' बीजमात्रं ' योगवीजमात्रं ' केचिद् ' व्यवहारनयप्रधाना इच्छन्ति । " मोक्षकारणीभूतचारित्र तत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारित्रिण एव योगः, अपुनर्बन्धकसम्यग्दृशोस्तु तद्योगचीजम् " इति निश्चयनयाभिमतः पन्धाः । व्यवहारनयस्तु योगबीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्वन्धकादयः स्थानादियोगस्वामिनः, निश्चयनयेन तु चारित्रिण एवेति विवेकः । तदिदमुक्तम्अपुनर्वन्धकस्यायं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥ २ ॥ " ( यो० वि० ३६८ श्लोक.' इति । अपुनर्वन्धकस्य उपलक्षणात्सम्यग्दृष्टेच 'न्यव -
(1