________________
[६२] देले सव्वे य तहा, नियमेणेसो चरित्तिणो होइ । इयरल बीयमित्तं, इत्तु चिय केइ इच्छंति ॥ ३ ॥ ___ 'देसे सव्वे यत्ति । सप्तम्याः पञ्चम्यर्थत्वादेशतस्तथा सर्वतश्च चारित्रिण एव 'एप' प्रागुक्तः स्थानादिरूपो योगः 'नियमेन' इतरव्यवच्छेदलक्षणेन निश्चयेन भवति, क्रियारूपस्य ज्ञानरूपस्य वाऽस्य चारित्रमोहनीयक्षयोपशमनान्तरीयकत्वात् , अत एवाध्यात्मादियोगप्रवृत्तिरपि चारित्रप्राप्तिमारभ्यैव ग्रन्थकृता योगविन्दौ प्ररूपिता, तथाहि-"देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः संप्रवर्तते ।। १ ॥" ( ३५६ श्लोक ) इति, 'देशादिभेदतः' देशसर्वविशेषाद् 'इदं' चारित्रं 'अध्यात्मादिः' अध्यात्मं १ भावना २ आध्यानं ३ समता ४ वृत्तिसंक्षयश्च ५, तत्राध्यात्म उचितप्रवृत्तेतभृतो मैत्र्यादिभावगर्भ शास्त्राजीवादितत्वचिन्तनम् १, भावना अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः २, आध्यानं प्रशस्तैकार्थविषयं स्थिरप्रदीपसदृशमुत्पातादिविषयसूक्ष्मोपयोगयुतं चित्तम् ३, समता अविद्याकल्पिोष्टानिष्टत्वसंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् ४, वृत्तिसंक्षयश्च मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनी वेन निरोधः ५। अथैतेपामध्यात्मादीनां स्थानादिपु कुत्र