________________
[ ६१ ]
,"
यध्यानम् एते चत्वारो भेदा:, ' रहितः' इति रूपिद्रव्यालम्वनरहितो निर्विकल्पचिन्मात्रसमाधिरूप इत्येवं 'एषः' योगः पञ्चविधः ' तन्त्रे ' योगप्रधानशास्त्रे, प्रतिपादित इति शेषः, उक्तं च - " स्थानोणर्यालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं. योगाभ्यास इति समयेविदः || ” ( पोड० १३ - ४ ) इति । स्थानादिषु योगत्वं च " मोक्षकारणीभूतानव्यापारत्वं योगत्वम्" इति योगलक्षणयोगादनुपचरितमेव । यत्तु " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्य " ( पातं ० सू० २ - २६ ) इति योगासत्त्वेन योगरूपता स्थानादिषु हेतुफलभावेनोपचारादभिधीयत इति पोडशकवृत्तावुक्तं वत् " चित्तवृत्तिनिरोधो योगः" (पा० यो० द० १-२ ) इति योगलक्षणाभिप्रायेणेति ध्येयम् । यत्र स्थानादिषु 'द्वर्य' स्थानोर्णलक्षणं कर्मयोग एव, स्थानस्य साक्षादूर्यस्याप्युच्चार्यमाणस्यैव ग्रहणादुच्चारणांशे क्रियारूपत्वात् । तथा ‘त्रयं' अर्थालम्बननिरालम्बनलक्षणं ज्ञानयोगः, तुः एवकारार्ध इति ज्ञानयोग एव, अर्थादीनां साक्षाद् ज्ञानरूपत्वात् ॥ २ ॥
●
एप कर्मयोगो ज्ञानयोगो वा कस्य भवतीति स्वामिचिन्तायामाह -
२ ' तत्वविदः इत्यपि ।