________________
[ ६० ]
दिमल विगमेन पुष्टिशुद्धिमवित्तमेव । पुष्टिश्च पुण्योपचयः, शुद्धिश्व घातिकर्मणां पापानां चयेण या काचिन्निर्मलता, तदुभयं च प्रणिधानादिलक्षणेन भावेनानुबन्धवद्भवति, तदनुवन्धाच्च शुद्धिप्रकर्षः संभवति, निरनुबन्धं च तदशुद्धिफलमेचेति न तद्धर्मलक्षणम्, ततो युक्तमुक्तं " प्रणिधानादिभावेन परिशुद्धः सर्वोऽपि धर्मव्यापारः सानुबन्धत्वाद् योगः " इति । यद्यप्येवं निश्चयतः परिशुद्धः सर्वोऽपि धर्मव्यापारो योगस्तथापि ' विशेषेण ' तान्त्रिकसंकेतव्यवहारकृतेनासाधारण्येन स्थानादिगत एव धर्मव्यापारो योगः, स्थानाद्यन्यतम एव योगपदप्रवृत्तेः सम्मतत्वादिति भावः || १ |
स्थानादिगतो धर्मव्यापारो विशेषेण योग इत्युक्तम्, तत्र के ते स्थानादयः ? कतिभेदं च तत्र योगत्वम् ? इत्याहठाणुन्नत्थालंवण - रहि तंतमि पंचहा एसो । दुगमित्थ कम्मजोगो, तहा तियं नाणंजोगो उ ॥२॥
'ठाणुन्नत्थे'त्यादि । स्थीयतेऽनेनेति स्थानं - आसनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादि सकलशास्त्र प्रसिद्धम्, ऊर्णः - शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणः, अर्थः- शब्दाभिधेयव्यवसायः, श्रालम्बनं - वाह्यप्रतिमादिविप१ " नाणजोगा उ" इत्यपि ।