________________
[५९] ग्नोचिभ्रमापनयनादनवच्छिन्नप्रयाणसंपादक इत्ययं मोहविनयसम उत्तमस्तृतीयो विप्नजयः। एते च त्रयोऽपि विघ्न
'भाशयरूपाः समुदिताः प्रवृत्तिहेतवोऽन्यतरवैकल्येऽपि ५५ देरित्यवधेयम् उक्तं च-" विमजयविविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकञ्वरमोहजयसमः प्रतिफलः ।।" (पो० ३-६) इति।। अतिचाररहिताधिकगुणे गुर्वादौ विनयवैयावृत्त्यबहुमानाधन्विता हीनगुणे निर्गुणे वा दयादानव्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृतधर्मस्थानस्याहिंसादेः प्राप्तिः सिद्धिः, उक्तं च- सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया। अधिक विनयादियुता. हीने च दयादिगुणसारा ॥" (पो. ३-१०) इति ।। स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वं विनियोगः. अयं चानेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्रवन्ध्यो हेतुः, उक्तं च-" सिद्धेश्वोचरकार्य, विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसंपत्त्या, सुन्दरमिति तत्परं यावत् ॥" (पो०३-११) 'अवन्ध्यं' न कदाचिन्निप्फलं 'एतत्' धर्मस्थानमहिंसादि, 'एतस्मिन् । विनियोगे सति 'अन्वयसंपत्त्या' अविच्छेदभावेन 'तत् । विनियोगसाध्यं धर्मस्थानं सुन्दरम् । 'इतिः' भिन्नक्रमः ममाप्त्यर्थश्व, यावत्परमित्येवं योगः, यावत् 'परं' प्रकृष्टं धर्मस्थानं समाप्यत इत्यर्थः । इदमत्र हृदयम्-धर्मस्तावद्रागा