________________
[ ६४] हारेण ' कारणे कार्यत्वोपचारेण तात्त्विकः, कारणस्यानि कथञ्चित्कार्यत्वात् । 'निश्चयेन ' उपचारपरिहारेण 'उत्तरस तु' चारित्रिण एव ।। सकृद्धन्धकादीनां तु स्थानादिकमसुद्ध परिणामत्वान्निश्चयतो व्यवहारतश्च न योगः किन्तु योगाभ्यास इत्यवधेयम् , उक्तं च-" सकृदावर्त्तनादीनामतात्त्विक उदा हृतः । प्रत्यपायफलप्रायस्तथा वेपादिमात्रतः ॥३॥ (यो० वि० ३६६ श्लोक.) सकृद्-एकवारमावर्तन्ते-उत्कृष्ट स्थिति वनन्ति ये ते सकृदावर्तनाः, आदिशब्दाद्विरावर्तना. दिग्रहः, 'अतात्त्विकः' व्यवहारतो निश्चयतश्चातत्त्वरूपः॥३॥ __तदेवं स्थानादियोगस्वामित्वं विवेचितम्, अथैदेष्ठेव प्रतिभेदानाहइछिको य चउद्धा, इत्थं पुण तत्तओ मुणेयत्रो । इच्छापवित्तिथिरसिद्धिभेयओ लखयनीईए ॥४॥
'इक्किको यत्ति । 'अत्र' स्थानादौ 'पुनः' कर्मज्ञानविभेदाभिधानापेक्षया भूयः एकैकश्चतुर्दा 'तत्त्वतः' सामान्येन दृष्टावपि परमार्थतः 'समयनीत्या' योगशाखप्रतिपादितपरिपाट्या 'इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः' इच्छाप्रवृत्तिस्थिरसिद्धिभेदानाश्रित्य 'मुणेयव्यो' त्ति ज्ञातव्यः ॥ ४ ॥
तानेव भेदान् विवरीपुराह