________________
L
प
[५२] तदसंख्येयवासनानिश्चित्रमपि परार्थ संहत्य
कारित्वात् ॥४-२४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः॥४-२५॥ तदा विवेकनिनं कैवल्यप्राग्भारं चित्तम् ॥४-२६॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥४-२७॥
हानमेषां क्लेशवदुक्तम् ।। ४-२८ ॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्म
मेघः समाधिः ॥४-२९ ॥ ।
ततः क्लेशकर्मनिवृत्तिः ॥ ४-३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानत्यानन्त्याज्ञय
मल्पम् ॥ ४-३१॥ ___ भाष्यम्-सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति । श्रावरकेण तमसाऽभिभूतमावृतं अनन्तं ज्ञानसत्त्वं कचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्यस्यानन्त्यं, ज्ञानस्यानन्त्याज्ज्ञेयमल्पं संपद्यते, यथाऽऽकाशे खद्योतः । यत्रेदमुक्तम्- " अन्धो मणिमविध्यत्तमनगुलिरावयत् । अग्रीवस्तं प्रत्यमुञ्चत्तमजिहोऽभ्यपूजयत् ॥ १ ॥” इति ॥