________________
1
[ ५३ ]
( २० ) - प्रयुक्तमेतत् । ज्ञानस्य ज्ञेयांश एवावरणस्यावारकत्वात्, स्वरूपावर णेऽचैतन्यप्रसङ्गात् । ज्ञानानन्त्ये ज्ञेयानन्त्यस्यापि प्रौव्यात् । उक्तं च- सूक्तं चात्मपरात्मकर्तृकर्म नाव पदपदमिति दिग् ॥
ततः कृतार्थानां परिणामक्रम समाप्तिर्गुणानाम् ॥ ४-३२ ॥
अथ कोऽयं क्रमो नाम ? इति - क्षणप्रतियोगी परिणामापरान्तनिग्रह्यः
कसः । ४-३३ ॥
भाग्यम् - क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन्द गृहाते क्रमः । न ननुभूतक्रमक्षणा नवस्य पुराणता व स्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता, कूटरधनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुपस्य, परिणामिनित्यता गुणानाम् । यस्मिन् परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् । उभयस्य च तत्त्वानभियातानित्यत्वम् । तत्र गुणधर्मेषु बुद्ध्यादिषु परिणामापरान्तनिप्रतिः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्रपुरुषेषु