________________
[ ५९ ]
यास्ते । कस्मात् । अस्ति हि तेषां भ्रान्तिवीजं सर्वरूपाकारनिर्मासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिविम्बीभूतः तस्यालम्वनीभूतत्वादन्यः । स चेदर्थः चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात्प्रतिविम्बी भूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतृग्रहणग्राद्यस्त्ररूपचितभेदात्रयमप्येतज्ज। तितः प्रविभजन्ते ते सम्यग्दर्शिनः तैरधिगतः पुरुष इति ॥
( य० ) - त्रयं तु ब्रूमः --- अग्निरूपात्म के प्रकाशे संयोगं विनाऽपि यथा स्वतः प्रकाशकत्वं तथा चैतन्येऽपि प्रतिप्राणि परानपेक्षतयानुभूयमाने, अन्यथाऽनवस्थाव्यासङ्गानुपपत्त्यादिदोपप्रसङ्गात् । परप्रकाशकत्वं च तस्य क्षयोपशमदशायां प्रतिनियतविषय संबन्धाधीनम् । क्षायिक्यां च दशायां सदा तन्निरावरणस्वभावाधीनम् । तचैतन्यं रूपादिवत्सामान्यवदस्पन्दात्मकानुपादानकारणत्वेन गुण इति गुण्याश्रित एव स्यात् । यश्च तस्य गुणी स एवात्मा । निर्गुणत्वं च तस्य सांसारिकगुणाभावापेक्षयैव ( न ) अन्यधा, ( तस्य ) स्वाभाविकानन्तगुणाधारत्वाद् । बिम्बभूतचितो निर्लेपत्वाभ्युपगमे च तत्प्रतिविम्वग्राहकत्वेन बुद्धौ प्रकाशस्यानुपपत्तिः, विम्बप्रतिविम्वभावसंवन्धस्य द्विष्ठत्वेन द्वयोरपि परत्वतौल्यान् । उपचरितनिम्त्वोपपादने चोपचरितसर्वविषयवायुपपादनमपि तुल्यमिति नयादेशविशेषपक्षपातमात्रमेतत् ॥ प्रकृतं प्रस्तुमः---