________________
[५] न तत्स्वासासं दृश्यत्वात् ॥४-१९॥ एकसमये चोभयानधारणम् ॥४-२० ॥
स्यान्मतिः स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेख गृह्यत इति--- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसं
करश्च ॥४-२१ ॥ कथम् ?चितेरप्रतिसंक्रमाथास्तदाझारापत्तौ स्वबुद्धि
संवेदनम् ॥ ४-२२ ॥ अतश्चैतदभ्युपगम्यते-- द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥४-२३ ॥
भाष्यम्-मनो हि मन्तव्येनार्थेनोपरक्तं, तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणात्मीयया वृत्त्याभिसंवद्धं, तदेतचित्तमेव द्रष्टदृश्योपरक्तं विषयविपयिनिर्भासं चेतनाचेतनस्वरूपापन्न विषयात्मकमप्यविषयात्मकमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्रमेवेदं सर्वम्, नास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति । अनुकम्पनी