________________
[३५] अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥२-३७॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २-३८ ॥ अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥२-३९ ॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥२-४० ॥
किञ्चसत्त्वशुद्धिसोमनस्यैकाग्र्यन्द्रियजयात्मदर्शन
योग्यत्वानि च ॥ २-४१ ॥ सन्तोषादनुत्तमः सुखलाभः ॥२-४२ ॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ २-४३ ॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥२-४४ ॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥२-४५॥
उक्ताः सह सिद्धिभिर्यमनियमाः । श्रासनादीनि वक्ष्यामः । तत्र
स्थिरसुखमासनम् ॥ २-४६ ॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २-४७ ॥
ततो द्वन्द्वानभिधातः ॥२-४८॥