________________
[३६] सस्मिन् सति श्वासप्रश्वासयोगतिविच्छेदः
प्राणायामः ॥ २-४९ ।। स तुबाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः
परिदृष्टो दीर्घसूक्ष्मः ॥ २-५० ॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥२-५१॥
ततः क्षीयते प्रकाशावरणम् ॥२-५२ ॥ धारणासु च योग्यता मनसः ॥२-५३ ॥
श्रथ का प्रत्याहारः ?खविषयासम्प्रयोगे चित्तवरूपानुकार इवेन्द्रि
याणां प्रत्याहारः ॥२-५४ ॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ २-५५ ॥
भाष्यम्-शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्ति
ाय्या । शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेपाभावे सुखदुःखशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चित्तैकाग्र्यादप्रतिपत्तिरेवेति जैगीपन्यः। ततश्च परमा त्वियं वश्यता