________________
[ ३४ ]
( य० ) - सर्व शब्द गर्भप्रतिज्ञया महाव्रतानि, देशशब्द गर्भप्रतिज्ञया चाणुव्रतानीति पुनः पारमर्षविवेकः । एकवचनं चात्र सर्वप्रतिज्ञया पथ्यानामपि तुल्यत्वाभिव्यक्त्यर्थम् ॥
शौच संतोष तपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २-३२ ॥
भाष्यम् - तत्र शौचं मृञ्जलादिजनितं मेध्याभ्यवहरणादि च वाह्यम् । श्रभ्यन्तरं चित्तमलानामाक्षालनम् ।
( य० ) - भाव शौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तत्त्वदर्शिनः ॥
एतेषां यमनियमानाम् -
वितर्काधने प्रतिपक्ष भावनम् ॥ २-३३ ॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्ष भावनम् ॥२-३४॥
प्रतिपक्षभावनाद्धेतोर्हेया वितर्का यदा स्युरप्रसवधर्माणस्तदा तत्कृतमैश्वर्य योगिनः सिद्धिचकं भवति, तद्यथाअहिलाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥२- ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २-३६ ॥